Hinduism  Mahabharata  Index  Book 3 Index  Previous  Next 

Book 3 in English

The Mahabharata in Sanskrit

Book 3
Chapter 80

 1 [व]
    धनंजयॊत्सुकास ते तु वने तस्मिन महारथाः
    नयवसन्त महाभागा दरौपद्या सह पाण्डवाः
 2 अथापश्यन महात्मानं देवर्षिं तत्र नारदम
    दीप्यमानं शरिया बराह्म्या दीप्ताग्निसमतेजसम
 3 स तैः परिवृतः शरीमान भरातृभिः कुरुसत्तमः
    विबभाव अतिदीप्तौजॊ देवैर इव शतक्रतुः
 4 यथा च वेदान सावित्री याज्ञसेनी तथा सती
    न जहौ धर्मतः पार्थान मेरुम अर्कप्रभा यथा
 5 परतिगृह्य तु तां पूजां नारदॊ भगवान ऋषिः
    आश्वासयद धर्मसुतं युक्तरूपम इवानघ
 6 उवाच च महात्मानं धर्मराजं युधिष्ठिरम
    बरूहि धर्मभृतां शरेष्ठ केनार्थः किं ददामि ते
 7 अथ धर्मसुतॊ राजा परणम्य भरातृभिः सह
    उवाच पराञ्जलिर वाक्यं नारदं देव संमितम
 8 तवयि तुष्टे महाभाग सर्वलॊकाभिपूजिते
    कृतम इत्य एव मन्ये ऽहं परसादात तव सुव्रत
 9 यदि तव अहम अनुग्राह्यॊ भरातृभिः सहितॊ ऽनघ
    संदेहं मे मुनिश्रेष्ठ हृदिस्थं छेत्तुम अर्हसि
 10 परदक्षिणं यः कुरुते पृथिवीं तीर्थतत्परः
   किं फलं तस्य कार्त्स्न्येन तद बरह्मन वक्तुम अर्हसि
 11 [न]
   शृणु राजन्न अवहितॊ यथा भीष्मेण भारत
   पुलस्त्यस्य सकाशाद वै सर्वम एतद उपश्रुतम
 12 पुरा भागीरथी तीरे भीष्मॊ धर्मभृतां वरः
   पित्र्यं वरतं समास्थाय नयवसन मुनिवत तदा
 13 शुभे देशे महाराज पुण्ये देवर्षिसेविते
   गङ्गा दवारे महातेजॊ देवगन्धर्वसेविते
 14 स पितॄंस तर्पयाम आस देवांश च परमद्युतिः
   ऋषींश च तॊषयाम आस विधिदृष्टेन कर्मणा
 15 कस्य चित तव अथ कालस्य जपन्न एव महातपाः
   ददर्शाद्भुतसंकाशं पुलस्त्यम ऋषिसत्तमम
 16 स तं दृष्ट्वॊग्र तपसं दीप्यमानम इव शरिया
   परहर्षम अतुलं लेभे विस्मयं च परं ययौ
 17 उपस्थितं महाराज पूजयाम आस भारत
   भीष्मॊ धर्मभृतां शरेष्ठॊ विधिदृष्टेन कर्मणा
 18 शिरसा चार्घ्यम आदाय शुचिः परयत मानसः
   नाम संकीर्तयाम आस तस्मिन बरह्मर्षिसत्तमे
 19 भीष्मॊ ऽहम अस्मि भद्रं ते दासॊ ऽसमि तव सुव्रत
   तव संदर्शनाद एव मुक्तॊ ऽहं सर्वकिल्बिषैः
 20 एवम उक्त्वा महाराज भीष्मॊ धर्मभृतां वरः
   वाग्यतः पराञ्जलिर भूत्वा तूष्णीम आसीद युधिष्ठिर
 21 तं दृष्ट्वा नियमेनाथ सवाध्यायाम्नाय कर्शितम
   भीष्मं कुरु कुलश्रेष्ठं मुनिः परीतमनाभवत
 22 [पुलस्त्य]
   अनेन तव धर्मज्ञ परश्रयेण दमेन च
   सत्येन च महाभाग तुष्टॊ ऽसमि तव सर्वशः
 23 यस्येदृशस ते धर्मॊ ऽयं पितृभक्त्याश्रितॊ ऽनघ
   तेन पश्यसि मां पुत्र परीतिश चापि मम तवयि
 24 अमॊघदर्शी भीष्माहं बरूहि किं करवाणि ते
   यद वक्ष्यसि कुरुश्रेष्ठ तस्य दातास्मि ते ऽनघ
 25 [भ]
   परीते तवयि महाभाग सर्वलॊकाभिपूजिते
   कृतम इत्य एव मन्ये ऽहं यद अहं दृष्टवान परभुम
 26 यदि तव अहम अनुग्राह्यस तव धर्मभृतां वर
   वक्ष्यामि हृत्स्थं संदेहं तन मे तवं वक्तुम अर्हसि
 27 अस्ति मे भगवन कश चित तीर्थेभ्यॊ धर्मसंशयः
   तम अहं शरॊतुम इच्छामि पृथक संकीर्तितं तवया
 28 परदक्षिणं यः पृथिवीं करॊत्य अमितविक्रम
   किं फलं तस्य विप्रर्षे तन मे बरूहि तपॊधन
 29 [प]
   हन्त ते ऽहं परवक्ष्यामि यद ऋषीणां परायणम
   तद एकाग्रमनास तात शृणु तीर्थेषु यत फलम
 30 यस्य हस्तौ च पादौ च मनश चैव सुसंयतम
   विद्या तपश च कीर्तिश च स तीर्थफलम अश्नुते
 31 परतिग्रहाद उपावृत्तः संतुष्टॊ नियतः शुचिः
   अहं कारनिवृत्तिश च स तीर्थफलम अश्नुते
 32 अकल्ककॊ निरारम्भॊ लघ्व आहारॊ जितेन्द्रियः
   विमुक्तः सर्वदॊषैर यः स तीर्थफलम अश्नुते
 33 अक्रॊधनश च राजेन्द्र सत्यशीलॊ दृढव्रतः
   आत्मॊपमश च भूतेषु स तीर्थफलम अश्नुते
 34 ऋषिभिः करतवः परॊक्ता वेदेष्व इह यथाक्रमम
   फलं चैव यथातत्त्वं परेत्य चेह च सर्वशः
 35 न ते शक्या दरिद्रेण यज्ञाः पराप्तुं महीपते
   बहूपकरणा यज्ञा नाना संभारविस्तराः
 36 पराप्यन्ते पार्थिवैर एते समृद्धैर वा नरैः कव चित
   नार्थान्य ऊनॊपकरणैर एकात्मभिर असंहतैः
 37 यॊ दरिद्रैर अपि विधिः शक्यः पराप्तुं नरेश्वर
   तुल्यॊ यज्ञफलैः पुण्यैस तं निबॊध युधां वर
 38 ऋषीणां परमं गुह्यम इदं भरतसत्तम
   तीर्थाभिगमनं पुण्यं यज्ञैर अपि विशिष्यते
 39 अनुपॊष्य तरिरात्राणि तीर्थान्य अनभिगम्य च
   अदत्त्वा काञ्चनं गाश च दरिद्रॊ नाम जायते
 40 अग्निष्टॊमादिभिर यज्ञैर इष्ट्वा विपुलदक्षिणैः
   न तत फलम अवाप्नॊति तीर्थाभिगमनेन यत
 41 नृलॊके देवदेवस्य तीर्थं तरैलॊक्यविश्रुतम
   पुष्करं नाम विख्यातं महाभागः समाविशेत
 42 दशकॊटिसहस्राणि तीर्थानां वै महीपते
   सांनिध्यं पुष्करे येषां तरिसंध्यं कुरुनन्दन
 43 आदित्या वसवॊ रुद्राः साध्याश च स मरुद्गणाः
   गन्धर्वाप्सरसश चैव नित्यं संनिहिता विभॊ
 44 यत्र देवास तपस तप्त्वा दैत्या बरह्मर्षयस तथा
   दिव्ययॊगा महाराज पुण्येन महतान्विताः
 45 मनसाप्य अभिकामस्य पुष्कराणि मनस्विनः
   पूयन्ते सर्वपापानि नाकपृष्ठे च पूज्यते
 46 तस्मिंस तीर्थे महाभाग नित्यम एव पिता महः
   उवास परमप्रीतॊ देवदानव संम्मतः
 47 पुष्करेषु महाभाग देवाः सर्षिपुरॊगमाः
   सिद्धिं समभिसंप्राप्ताः पुण्येन महतान्विताः
 48 तत्राभिषेकं यः कुर्यात पितृदेवार्चने रतः
   अश्वमेधं दशगुणं परवदन्ति मनीषिणः
 49 अप्य एकं भॊजयेद विप्रं पुष्करारण्यम आश्रितः
   तेनासौ कर्मणा भीष्म परेत्य चेह च मॊदते
 50 शाकमूलफलैर वापि येन वर्तयते सवयम
   तद वै दद्याद बराह्मणाय शरद्धावान अनसूयकः
   तेनैव पराप्नुयात पराज्ञॊ हयमेध फलं नरः
 51 बराह्मणः कषत्रियॊ वैश्यः शूद्रॊ वा राजसत्तम
   न वियॊनिं वरजन्त्य एते सनातास तीर्थे महात्मनः
 52 कार्तिक्यां तु विशेषेण यॊ ऽभिगच्छेत पुष्करम
   फलं तत्राक्षयं तस्य वर्धते भरतर्षभ
 53 सायंप्रातः समरेद यस तु पुष्कराणि कृताञ्जलिः
   उपस्पृष्टं भवेत तेन सर्वतीर्थेषु भारत
   पराप्नुयाच च नरॊ लॊकान बरह्मणः सदने ऽकषयान
 54 जन्मप्रभृति यत पापं सत्रियॊ वा पुरुषस्य वा
   पुष्करे सनातमात्रस्य सर्वम एव परणश्यति
 55 यथा सुराणां सर्वेषाम आदिस तु मधुसूदनः
   तथैव पुष्करं राजंस तीर्थानाम आदिर उच्यते
 56 उष्य दवादश वर्षाणि पुष्करे नियतः शुचिः
   करतून सर्वान अवाप्नॊति बरह्मलॊकं च गच्छति
 57 यस तु वर्षशतं पूर्णम अग्निहॊत्रम उपासते
   कार्तिकीं वा वसेद एकां पुष्करे समम एव तत
 58 पुष्करं पुष्करं गन्तुं दुष्करं पुष्करे तपः
   दुष्करं पुष्करे दानं वस्तुं चैव सुदुष्करम
 59 उष्य दवादश रात्रं तु नियतॊ नियताशनः
   परदक्षिणम उपावृत्तॊ जम्बू मार्गं समाविशेत
 60 जम्बू मार्गं समाविश्य देवर्षिपितृसेवितम
   अश्वमेधम अवाप्नॊति विष्णुलॊकं च गच्छति
 61 तत्रॊष्य रजनीः पञ्च षष्ठ कालक्षमी नरः
   न दुर्गतिम अवाप्नॊति सिद्धिं पराप्नॊति चॊत्तमाम
 62 जम्बू मार्गाद उपावृत्तॊ गच्छेत तण्डुलिकाश्रमम
   न दुर्गतिम अवाप्नॊति सवर्गलॊके च पूज्यते
 63 अगस्य सर आसाद्य पितृदेवार्चने रतः
   तरिरात्रॊपॊषितॊ राजन्न अग्निष्टॊम फलं लभेत
 64 शाकवृत्तिः फलैर वापि कौमारं विन्दते पदम
   कण्वाश्रमं समासाद्य शरीजुष्टं लॊकपूजितम
 65 धर्मारण्यं हि तत पुण्यम आद्यं च भरतर्षभ
   यत्र परविष्टमात्रॊ वै पापेभ्यॊ विप्रमुच्यते
 66 अर्चयित्वा पितॄन देवान नियतॊ नियताशनः
   सर्वकामसमृद्धस्य यज्ञस्य फलम अश्नुते
 67 परदक्षिणं ततः कृत्वा ययाति पतनं वरजेत
   हयमेधस्य यज्ञस्य फलं पराप्नॊति तत्र वै
 68 महाकालं ततॊ गच्छेन नियतॊ नियताशनः
   कॊटितीर्थम उपस्पृश्य हयमेध फलं लभेत
 69 ततॊ गच्छेत धर्मज्ञ पुण्यस्थानम उमापतेः
   नाम्ना भद्र वटं नाम तरिषु लॊकेषु विश्रुतम
 70 तत्राभिगम्य चेशानं गॊसहस्रफलं लभेत
   महादेव परसादाच च गाणपत्यम अवाप्नुयात
 71 नर्मदाम अथ चासाद्य नदीं तरैलॊक्यविश्रुताम
   तर्पयित्वा पितॄन देवान अग्निष्टॊम फलं लभेत
 72 दक्षिणं सिन्धुम आसाद्य बरह्म चारी जितेन्द्रियः
   अग्निष्टॊमम अवाप्नॊति विमानं चाधिरॊहति
 73 चर्मण्वतीं समासाद्य नियतॊ नियताशनः
   रन्ति देवाभ्यनुज्ञातॊ अग्निष्टॊम फलं लभेत
 74 ततॊ गच्छेत धर्मज्ञ हिमवत्सुतम अर्बुदम
   पृथिव्यां यत्र वै छिद्रं पूर्वम आसीद युधिष्ठिर
 75 तत्राश्रमॊ वसिष्ठस्य तरिषु लॊकेषु विश्रुतः
   तत्रॊष्य रजनीम एकां गॊसहस्रफलं लभेत
 76 पिङ्गा तीर्थम उपस्पृश्य बरह्म चारी जितेन्द्रियः
   कपिलानां नरव्याघ्र शतस्य फलम अश्नुते
 77 ततॊ गच्छेत धर्मज्ञ परभासं लॊकविश्रुतम
   यत्र संनिहितॊ नित्यं सवयम एव हुताशनः
   देवतानां मुखं वीर अनलॊ ऽनिलसारथिः
 78 तस्मिंस तीर्थवरे सनात्वा शुचिः परयत मानसः
   अग्निष्टॊमातिरात्राभ्यां फलं पराप्नॊति मानवः
 79 ततॊ गत्वा सरस्वत्याः सागरस्य च संगमे
   गॊसहस्रफलं पराप्य सवर्गलॊके महीयते
   दीप्यमानॊ ऽगनिवन नित्यं परभया भरतर्षभ
 80 तरिरात्रम उषितस तत्र तर्पयेत पितृदेवताः
   परभासते यथा सॊमॊ अश्वमेधं च विन्दति
 81 वरदानं ततॊ गच्छेत तीर्थं भरतसत्तम
   विष्णॊर दुर्वाससा यत्र वरॊ दत्तॊ युधिष्ठिर
 82 वरदाने नरः सनात्वा गॊसहस्रफलं लभेत
   ततॊ दवारवतीं गच्छेन नियतॊ नियताशनः
   पिण्डारके नरः सनात्वा लभेद बहुसुवर्णकम
 83 तस्मिंस तीर्थे महाभाग पद्मलक्षणलक्षिताः
   अद्यापि मुद्रा दृश्यन्ते तद अद्भुतम अरिंदम
 84 तरिशूलाङ्कानि पद्मानि दृश्यन्ते कुरुनन्दन
   महादेवस्य सांनिध्यं तत्रैव भरतर्षभ
 85 सागरस्य च सिन्धॊश च संगमं पराप्य भारत
   तीर्थे सलिलराजस्य सनात्वा परयत मानसः
 86 तर्पयित्वा पितॄन देवान ऋषींश च भरतर्षभ
   पराप्नॊति वारुणं लॊकं दीप्यमानः सवतेजसा
 87 शङ्कुकर्णेश्वरं देवम अर्चयित्वा युधिष्ठिर
   अश्वमेधं दशगुणं परवदन्ति मनीषिणः
 88 परदक्षिणम उपावृत्य गच्छेत भरतर्षभ
   तीर्थं कुरु वरश्रेष्ठ तरिषु लॊकेषु विश्रुतम
   दृमीति नाम्ना विख्यातं सर्वपापप्रमॊचनम
 89 यत्र बरह्मादयॊ देवा उपासन्ते महेश्वरम
   तत्र सनात्वार्चयित्वा च रुद्रं देवगणैर वृतम
   जन्मप्रभृति पापानि कृतानि नुदते नरः
 90 दृमी चात्र नरश्रेष्ठ सर्वदेवैर अभिष्टुता
   तत्र सनात्वा नरव्याघ्र हयमेधम अवाप्नुयात
 91 जित्वा यत्र महाप्राज्ञ विष्णुना परभ विष्णुना
   पुरा शौचं कृतं राजन हत्वा दैवतकण्टकान
 92 ततॊ गच्छेत धर्मज्ञ वसॊर धाराम अभिष्टुताम
   गमनाद एव तस्यां हि हयमेधम अवाप्नुयात
 93 सनात्वा कुरु वरश्रेष्ठ परयतात्मा तु मानवः
   तर्प्य देवान पितॄंश चैव विष्णुलॊके महीयते
 94 तीर्थं चात्र परं पुण्यं वसूनां भरतर्षभ
   तत्र सनात्वा च पीत्वा च वसूनां संमतॊ भवेत
 95 सिन्धूत्तमम इति खयातं सर्वपापप्रणाशनम
   तत्र सनात्वा नरश्रेष्ठ लभेद बहुसुवर्णकम
 96 बरह्म तुङ्गं समासाद्य शुचिः परयत मानसः
   बरह्मलॊकम अवाप्नॊति सुकृती विरजा नरः
 97 कुमारिकाणां शक्रस्य तीर्थं सिद्धनिषेवितम
   तत्र सनात्वा नरः कषिप्रं शक्र लॊकम अवाप्नुयात
 98 रेणुकायाश च तत्रैव तीर्थं देव निषेवितम
   तत्र सनात्वा भवेद विप्रॊ विमलश चन्द्रमा यथा
 99 अथ पञ्चनदं गत्वा नियतॊ नियताशनः
   पञ्च यज्ञान अवाप्नॊति करमशॊ ये ऽनुकीर्तिताः
 100 ततॊ गच्छेत धर्मज्ञ भीमायाः सथानम उत्तमम
   तत्र सनात्वा तु यॊन्यां वै नरॊ भरतसत्तम
101 देव्याः पुत्रॊ भवेद राजंस तप्तकुण्डलविग्रहः
   गवां शतसहस्रस्य फलं चैवाप्नुयान महत
102 गिरिमुञ्जं समासाद्य तरिषु लॊकेषु विश्रुतम
   पिता महं नमस्कृत्य गॊसहस्रफलं लभेत
103 ततॊ गच्छेत धर्मज्ञ विमलं तीर्थम उत्तमम
   अद्यापि यत्र दृश्यन्ते मत्स्याः सौवर्णराजताः
104 तत्र सनात्वा नरश्रेष्ठ वाजपेयम अवाप्नुयात
   सर्वपापविशुद्धात्मा गच्छेच च परमां गतिम
105 ततॊ गच्छेत मलदां तरिषु लॊकेषु विश्रुताम
   पश्चिमायां तु संध्यायाम उपस्पृश्य यथाविधि
106 चरुं नरेन्द्र सप्तार्चेर यथाशक्ति निवेदयेत
   पितॄणाम अक्षयं दानं परवदन्ति मनीषिणः
107 गवां शतसहस्रेण राजसूय शतेन च
   अश्वमेध सहस्रेण शरेयान सप्तार्चिषश चरुः
108 ततॊ निवृत्तॊ राजेन्द्र वस्त्रा पदम अथाविशेत
   अभिगम्य महादेवम अश्वमेध फलं लभेत
109 मणिमन्तं समासाद्य बरह्म चारी समाहितः
   एकरात्रॊषितॊ राजन्न अग्निष्टॊम फलं लभेत
110 अथ गच्छेत राजेन्द्र देविकां लॊकविश्रुताम
   परसूतिर यत्र विप्राणां शरूयते भरतर्षभ
111 तरिशूलपाणेः सथानं च तरिषु लॊकेषु विश्रुतम
   देविकायां नरः सनात्वा समभ्यर्च्य महेश्वरम
112 यथाशक्ति चरुं तत्र निवेद्य भरतर्षभ
   सर्वकामसमृद्धस्य यज्ञस्य लभते फलम
113 कामाख्यं तत्र रुद्रस्य तीर्थं देवर्षिसेवितम
   तत्र सनात्वा नरः कषिप्रं सिद्धिम आप्नॊति भारत
114 यजनं याजनं गत्वा तथैव बरह्म वालुकाम
   पुष्पन्यास उपस्पृश्य न शॊचेन मरणं ततः
115 अर्धयॊजनविस्तारां पञ्चयॊजनम आयताम
   एतावद देविकाम आहुः पुण्यां देवर्षिसेविताम
116 ततॊ गच्छेत धर्मज्ञ दीर्घसत्रं यथाक्रमम
   यत्र बरह्मादयॊ देवाः सिद्धाश च परमर्षयः
   दीर्घसत्रम उपासन्ते दक्षिणाभिर यतव्रताः
117 गमनाद एव राजेन्द्र दीर्घसत्रम अरिंदम
   राजसूयाश्वमेधाभ्यां फलं पराप्नॊति मानवः
118 ततॊ विनशनं गच्छेन नियतॊ नियताशनः
   गच्छत्य अन्तर्हिता यत्र मरु पृष्ठे सरस्वती
   चमसे च शिवॊद्भेदे नागॊद्भेदे च दृश्यते
119 सनात्वा च चमसॊद्भेदे अग्निष्टॊम फलं लभेत
   शिवॊद्भेदे नरः सनात्वा गॊसहस्रफलं लभेत
120 नागॊद्भेदे नरः सनात्वा नागलॊकम अवाप्नुयात
   शशयानं च राजेन्द्र तीर्थम आसाद्य दुर्लभम
   शशरूपप्रतिछन्नाः पुष्करा यत्र भारत
121 सरस्वत्यां महाराज अनु संवत्सरं हि ते
   सनायन्ते भरतश्रेष्ठ वृत्तां वै कार्तिकीं सदा
122 तत्र सनात्वा नरव्याघ्र दयॊतते शशिवत सदा
   गॊसहस्रपलं चैव पराप्नुयाद भरतर्षभ
123 कुमार कॊटिम आसाद्य नियतः कुरुनन्दन
   तत्राभिषेकं कुर्वीत पितृदेवार्चने रतः
   गवामयम अवाप्नॊति कुलं चैव समुद्धरेत
124 ततॊ गच्छेत धर्मज्ञ रुद्र कॊटिं समाहितः
   पुरा यत्र महाराज ऋषिकॊटिः समाहिता
   परहर्षेण च संविष्टा देव दर्शनकाङ्क्षया
125 अहं पूर्वम अहं पूर्वं दरक्ष्यामि वृषभध्वजम
   एवं संप्रस्थिता राजन्न ऋषयः किल भारत
126 ततॊ यॊगेष्वरेणापि यॊगम आस्थाय भूपते
   तेषां मन्युप्रणाशार्थम ऋषीणां भावितात्मनाम
127 सृष्टा कॊटिस तु रुद्राणाम ऋषीणाम अग्रतः सथिता
   मया पूर्वतरं दृष्ट इति ते मेनिरे पृथक
128 तेषां तुष्टॊ महादेव ऋषीणाम उग्रतेजसाम
   भक्त्या परमया राजन वरं तेषां परदिष्टवान
   अद्य परभृति युष्माकं धर्मवृद्धिर भविष्यति
129 तत्र सनात्वा नरव्याघ्र रुद्र कॊट्यां नरः शुचिः
   अश्वमेधम अवाप्नॊति कुलं चैव समुद्धरेत
130 ततॊ गच्छेत राजेन्द्र संगमं लॊकविश्रुतम
   सरस्वत्या महापुण्यम उपासन्ते जनार्दनम
131 यत्र बरह्मादयॊ देवा ऋषयः सिद्धचारणाः
   अभिगच्छन्ति राजेन्द्र चैत्रशुक्लचतुर्दशीम
132 तत्र सनात्वा नरव्याघ्र विन्देद बहुसुवर्णकम
   सर्वपापविशुद्धात्मा बरह्मलॊकं च गच्छति
133 ऋषीणां यत्र सत्राणि समाप्तानि नराधिप
   सत्रावसानम आसाद्य गॊसहस्रफलं लभेत
 1 [v]
    dhanaṃjayotsukās te tu vane tasmin mahārathāḥ
    nyavasanta mahābhāgā draupadyā saha pāṇḍavāḥ
 2 athāpaśyan mahātmānaṃ devarṣiṃ tatra nāradam
    dīpyamānaṃ śriyā brāhmyā dīptāgnisamatejasam
 3 sa taiḥ parivṛtaḥ śrīmān bhrātṛbhiḥ kurusattamaḥ
    vibabhāv atidīptaujo devair iva śatakratuḥ
 4 yathā ca vedān sāvitrī yājñasenī tathā satī
    na jahau dharmataḥ pārthān merum arkaprabhā yathā
 5 pratigṛhya tu tāṃ pūjāṃ nārado bhagavān ṛṣiḥ
    āśvāsayad dharmasutaṃ yuktarūpam ivānagha
 6 uvāca ca mahātmānaṃ dharmarājaṃ yudhiṣṭhiram
    brūhi dharmabhṛtāṃ śreṣṭha kenārthaḥ kiṃ dadāmi te
 7 atha dharmasuto rājā praṇamya bhrātṛbhiḥ saha
    uvāca prāñjalir vākyaṃ nāradaṃ deva saṃmitam
 8 tvayi tuṣṭe mahābhāga sarvalokābhipūjite
    kṛtam ity eva manye 'haṃ prasādāt tava suvrata
 9 yadi tv aham anugrāhyo bhrātṛbhiḥ sahito 'nagha
    saṃdehaṃ me muniśreṣṭha hṛdisthaṃ chettum arhasi
 10 pradakṣiṇaṃ yaḥ kurute pṛthivīṃ tīrthatatparaḥ
   kiṃ phalaṃ tasya kārtsnyena tad brahman vaktum arhasi
 11 [n]
   śṛṇu rājann avahito yathā bhīṣmeṇa bhārata
   pulastyasya sakāśād vai sarvam etad upaśrutam
 12 purā bhāgīrathī tīre bhīṣmo dharmabhṛtāṃ varaḥ
   pitryaṃ vrataṃ samāsthāya nyavasan munivat tadā
 13 śubhe deśe mahārāja puṇye devarṣisevite
   gaṅgā dvāre mahātejo devagandharvasevite
 14 sa pitṝṃs tarpayām āsa devāṃś ca paramadyutiḥ
   ṛṣīṃś ca toṣayām āsa vidhidṛṣṭena karmaṇā
 15 kasya cit tv atha kālasya japann eva mahātapāḥ
   dadarśādbhutasaṃkāśaṃ pulastyam ṛṣisattamam
 16 sa taṃ dṛṣṭvogra tapasaṃ dīpyamānam iva śriyā
   praharṣam atulaṃ lebhe vismayaṃ ca paraṃ yayau
 17 upasthitaṃ mahārāja pūjayām āsa bhārata
   bhīṣmo dharmabhṛtāṃ śreṣṭho vidhidṛṣṭena karmaṇā
 18 śirasā cārghyam ādāya śuciḥ prayata mānasaḥ
   nāma saṃkīrtayām āsa tasmin brahmarṣisattame
 19 bhīṣmo 'ham asmi bhadraṃ te dāso 'smi tava suvrata
   tava saṃdarśanād eva mukto 'haṃ sarvakilbiṣaiḥ
 20 evam uktvā mahārāja bhīṣmo dharmabhṛtāṃ varaḥ
   vāgyataḥ prāñjalir bhūtvā tūṣṇīm āsīd yudhiṣṭhira
 21 taṃ dṛṣṭvā niyamenātha svādhyāyāmnāya karśitam
   bhīṣmaṃ kuru kulaśreṣṭhaṃ muniḥ prītamanābhavat
 22 [pulastya]
   anena tava dharmajña praśrayeṇa damena ca
   satyena ca mahābhāga tuṣṭo 'smi tava sarvaśaḥ
 23 yasyedṛśas te dharmo 'yaṃ pitṛbhaktyāśrito 'nagha
   tena paśyasi māṃ putra prītiś cāpi mama tvayi
 24 amoghadarśī bhīṣmāhaṃ brūhi kiṃ karavāṇi te
   yad vakṣyasi kuruśreṣṭha tasya dātāsmi te 'nagha
 25 [bh]
   prīte tvayi mahābhāga sarvalokābhipūjite
   kṛtam ity eva manye 'haṃ yad ahaṃ dṛṣṭavān prabhum
 26 yadi tv aham anugrāhyas tava dharmabhṛtāṃ vara
   vakṣyāmi hṛtsthaṃ saṃdehaṃ tan me tvaṃ vaktum arhasi
 27 asti me bhagavan kaś cit tīrthebhyo dharmasaṃśayaḥ
   tam ahaṃ śrotum icchāmi pṛthak saṃkīrtitaṃ tvayā
 28 pradakṣiṇaṃ yaḥ pṛthivīṃ karoty amitavikrama
   kiṃ phalaṃ tasya viprarṣe tan me brūhi tapodhana
 29 [p]
   hanta te 'haṃ pravakṣyāmi yad ṛṣīṇāṃ parāyaṇam
   tad ekāgramanās tāta śṛṇu tīrtheṣu yat phalam
 30 yasya hastau ca pādau ca manaś caiva susaṃyatam
   vidyā tapaś ca kīrtiś ca sa tīrthaphalam aśnute
 31 pratigrahād upāvṛttaḥ saṃtuṣṭo niyataḥ śuciḥ
   ahaṃ kāranivṛttiś ca sa tīrthaphalam aśnute
 32 akalkako nirārambho laghv āhāro jitendriyaḥ
   vimuktaḥ sarvadoṣair yaḥ sa tīrthaphalam aśnute
 33 akrodhanaś ca rājendra satyaśīlo dṛḍhavrataḥ
   ātmopamaś ca bhūteṣu sa tīrthaphalam aśnute
 34 ṛṣibhiḥ kratavaḥ proktā vedeṣv iha yathākramam
   phalaṃ caiva yathātattvaṃ pretya ceha ca sarvaśaḥ
 35 na te śakyā daridreṇa yajñāḥ prāptuṃ mahīpate
   bahūpakaraṇā yajñā nānā saṃbhāravistarāḥ
 36 prāpyante pārthivair ete samṛddhair vā naraiḥ kva cit
   nārthāny ūnopakaraṇair ekātmabhir asaṃhataiḥ
 37 yo daridrair api vidhiḥ śakyaḥ prāptuṃ nareśvara
   tulyo yajñaphalaiḥ puṇyais taṃ nibodha yudhāṃ vara
 38 ṛṣīṇāṃ paramaṃ guhyam idaṃ bharatasattama
   tīrthābhigamanaṃ puṇyaṃ yajñair api viśiṣyate
 39 anupoṣya trirātrāṇi tīrthāny anabhigamya ca
   adattvā kāñcanaṃ gāś ca daridro nāma jāyate
 40 agniṣṭomādibhir yajñair iṣṭvā vipuladakṣiṇaiḥ
   na tat phalam avāpnoti tīrthābhigamanena yat
 41 nṛloke devadevasya tīrthaṃ trailokyaviśrutam
   puṣkaraṃ nāma vikhyātaṃ mahābhāgaḥ samāviśet
 42 daśakoṭisahasrāṇi tīrthānāṃ vai mahīpate
   sāṃnidhyaṃ puṣkare yeṣāṃ trisaṃdhyaṃ kurunandana
 43 ādityā vasavo rudrāḥ sādhyāś ca sa marudgaṇāḥ
   gandharvāpsarasaś caiva nityaṃ saṃnihitā vibho
 44 yatra devās tapas taptvā daityā brahmarṣayas tathā
   divyayogā mahārāja puṇyena mahatānvitāḥ
 45 manasāpy abhikāmasya puṣkarāṇi manasvinaḥ
   pūyante sarvapāpāni nākapṛṣṭhe ca pūjyate
 46 tasmiṃs tīrthe mahābhāga nityam eva pitā mahaḥ
   uvāsa paramaprīto devadānava saṃmmataḥ
 47 puṣkareṣu mahābhāga devāḥ sarṣipurogamāḥ
   siddhiṃ samabhisaṃprāptāḥ puṇyena mahatānvitāḥ
 48 tatrābhiṣekaṃ yaḥ kuryāt pitṛdevārcane rataḥ
   aśvamedhaṃ daśaguṇaṃ pravadanti manīṣiṇaḥ
 49 apy ekaṃ bhojayed vipraṃ puṣkarāraṇyam āśritaḥ
   tenāsau karmaṇā bhīṣma pretya ceha ca modate
 50 śākamūlaphalair vāpi yena vartayate svayam
   tad vai dadyād brāhmaṇāya śraddhāvān anasūyakaḥ
   tenaiva prāpnuyāt prājño hayamedha phalaṃ naraḥ
 51 brāhmaṇaḥ kṣatriyo vaiśyaḥ śūdro vā rājasattama
   na viyoniṃ vrajanty ete snātās tīrthe mahātmanaḥ
 52 kārtikyāṃ tu viśeṣeṇa yo 'bhigaccheta puṣkaram
   phalaṃ tatrākṣayaṃ tasya vardhate bharatarṣabha
 53 sāyaṃprātaḥ smared yas tu puṣkarāṇi kṛtāñjaliḥ
   upaspṛṣṭaṃ bhavet tena sarvatīrtheṣu bhārata
   prāpnuyāc ca naro lokān brahmaṇaḥ sadane 'kṣayān
 54 janmaprabhṛti yat pāpaṃ striyo vā puruṣasya vā
   puṣkare snātamātrasya sarvam eva praṇaśyati
 55 yathā surāṇāṃ sarveṣām ādis tu madhusūdanaḥ
   tathaiva puṣkaraṃ rājaṃs tīrthānām ādir ucyate
 56 uṣya dvādaśa varṣāṇi puṣkare niyataḥ śuciḥ
   kratūn sarvān avāpnoti brahmalokaṃ ca gacchati
 57 yas tu varṣaśataṃ pūrṇam agnihotram upāsate
   kārtikīṃ vā vased ekāṃ puṣkare samam eva tat
 58 puṣkaraṃ puṣkaraṃ gantuṃ duṣkaraṃ puṣkare tapaḥ
   duṣkaraṃ puṣkare dānaṃ vastuṃ caiva suduṣkaram
 59 uṣya dvādaśa rātraṃ tu niyato niyatāśanaḥ
   pradakṣiṇam upāvṛtto jambū mārgaṃ samāviśet
 60 jambū mārgaṃ samāviśya devarṣipitṛsevitam
   aśvamedham avāpnoti viṣṇulokaṃ ca gacchati
 61 tatroṣya rajanīḥ pañca ṣaṣṭha kālakṣamī naraḥ
   na durgatim avāpnoti siddhiṃ prāpnoti cottamām
 62 jambū mārgād upāvṛtto gacchet taṇḍulikāśramam
   na durgatim avāpnoti svargaloke ca pūjyate
 63 agasya sara āsādya pitṛdevārcane rataḥ
   trirātropoṣito rājann agniṣṭoma phalaṃ labhet
 64 śākavṛttiḥ phalair vāpi kaumāraṃ vindate padam
   kaṇvāśramaṃ samāsādya śrījuṣṭaṃ lokapūjitam
 65 dharmāraṇyaṃ hi tat puṇyam ādyaṃ ca bharatarṣabha
   yatra praviṣṭamātro vai pāpebhyo vipramucyate
 66 arcayitvā pitṝn devān niyato niyatāśanaḥ
   sarvakāmasamṛddhasya yajñasya phalam aśnute
 67 pradakṣiṇaṃ tataḥ kṛtvā yayāti patanaṃ vrajet
   hayamedhasya yajñasya phalaṃ prāpnoti tatra vai
 68 mahākālaṃ tato gacchen niyato niyatāśanaḥ
   koṭitīrtham upaspṛśya hayamedha phalaṃ labhet
 69 tato gaccheta dharmajña puṇyasthānam umāpateḥ
   nāmnā bhadra vaṭaṃ nāma triṣu lokeṣu viśrutam
 70 tatrābhigamya ceśānaṃ gosahasraphalaṃ labhet
   mahādeva prasādāc ca gāṇapatyam avāpnuyāt
 71 narmadām atha cāsādya nadīṃ trailokyaviśrutām
   tarpayitvā pitṝn devān agniṣṭoma phalaṃ labhet
 72 dakṣiṇaṃ sindhum āsādya brahma cārī jitendriyaḥ
   agniṣṭomam avāpnoti vimānaṃ cādhirohati
 73 carmaṇvatīṃ samāsādya niyato niyatāśanaḥ
   ranti devābhyanujñāto agniṣṭoma phalaṃ labhet
 74 tato gaccheta dharmajña himavatsutam arbudam
   pṛthivyāṃ yatra vai chidraṃ pūrvam āsīd yudhiṣṭhira
 75 tatrāśramo vasiṣṭhasya triṣu lokeṣu viśrutaḥ
   tatroṣya rajanīm ekāṃ gosahasraphalaṃ labhet
 76 piṅgā tīrtham upaspṛśya brahma cārī jitendriyaḥ
   kapilānāṃ naravyāghra śatasya phalam aśnute
 77 tato gaccheta dharmajña prabhāsaṃ lokaviśrutam
   yatra saṃnihito nityaṃ svayam eva hutāśanaḥ
   devatānāṃ mukhaṃ vīra analo 'nilasārathiḥ
 78 tasmiṃs tīrthavare snātvā śuciḥ prayata mānasaḥ
   agniṣṭomātirātrābhyāṃ phalaṃ prāpnoti mānavaḥ
 79 tato gatvā sarasvatyāḥ sāgarasya ca saṃgame
   gosahasraphalaṃ prāpya svargaloke mahīyate
   dīpyamāno 'gnivan nityaṃ prabhayā bharatarṣabha
 80 trirātram uṣitas tatra tarpayet pitṛdevatāḥ
   prabhāsate yathā somo aśvamedhaṃ ca vindati
 81 varadānaṃ tato gacchet tīrthaṃ bharatasattama
   viṣṇor durvāsasā yatra varo datto yudhiṣṭhira
 82 varadāne naraḥ snātvā gosahasraphalaṃ labhet
   tato dvāravatīṃ gacchen niyato niyatāśanaḥ
   piṇḍārake naraḥ snātvā labhed bahusuvarṇakam
 83 tasmiṃs tīrthe mahābhāga padmalakṣaṇalakṣitāḥ
   adyāpi mudrā dṛśyante tad adbhutam ariṃdama
 84 triśūlāṅkāni padmāni dṛśyante kurunandana
   mahādevasya sāṃnidhyaṃ tatraiva bharatarṣabha
 85 sāgarasya ca sindhoś ca saṃgamaṃ prāpya bhārata
   tīrthe salilarājasya snātvā prayata mānasaḥ
 86 tarpayitvā pitṝn devān ṛṣīṃś ca bharatarṣabha
   prāpnoti vāruṇaṃ lokaṃ dīpyamānaḥ svatejasā
 87 śaṅkukarṇeśvaraṃ devam arcayitvā yudhiṣṭhira
   aśvamedhaṃ daśaguṇaṃ pravadanti manīṣiṇaḥ
 88 pradakṣiṇam upāvṛtya gaccheta bharatarṣabha
   tīrthaṃ kuru varaśreṣṭha triṣu lokeṣu viśrutam
   dṛmīti nāmnā vikhyātaṃ sarvapāpapramocanam
 89 yatra brahmādayo devā upāsante maheśvaram
   tatra snātvārcayitvā ca rudraṃ devagaṇair vṛtam
   janmaprabhṛti pāpāni kṛtāni nudate naraḥ
 90 dṛmī cātra naraśreṣṭha sarvadevair abhiṣṭutā
   tatra snātvā naravyāghra hayamedham avāpnuyāt
 91 jitvā yatra mahāprājña viṣṇunā prabha viṣṇunā
   purā śaucaṃ kṛtaṃ rājan hatvā daivatakaṇṭakān
 92 tato gaccheta dharmajña vasor dhārām abhiṣṭutām
   gamanād eva tasyāṃ hi hayamedham avāpnuyāt
 93 snātvā kuru varaśreṣṭha prayatātmā tu mānavaḥ
   tarpya devān pitṝṃś caiva viṣṇuloke mahīyate
 94 tīrthaṃ cātra paraṃ puṇyaṃ vasūnāṃ bharatarṣabha
   tatra snātvā ca pītvā ca vasūnāṃ saṃmato bhavet
 95 sindhūttamam iti khyātaṃ sarvapāpapraṇāśanam
   tatra snātvā naraśreṣṭha labhed bahusuvarṇakam
 96 brahma tuṅgaṃ samāsādya śuciḥ prayata mānasaḥ
   brahmalokam avāpnoti sukṛtī virajā naraḥ
 97 kumārikāṇāṃ śakrasya tīrthaṃ siddhaniṣevitam
   tatra snātvā naraḥ kṣipraṃ śakra lokam avāpnuyāt
 98 reṇukāyāś ca tatraiva tīrthaṃ deva niṣevitam
   tatra snātvā bhaved vipro vimalaś candramā yathā
 99 atha pañcanadaṃ gatvā niyato niyatāśanaḥ
   pañca yajñān avāpnoti kramaśo ye 'nukīrtitāḥ
 100 tato gaccheta dharmajña bhīmāyāḥ sthānam uttamam
   tatra snātvā tu yonyāṃ vai naro bharatasattama
101 devyāḥ putro bhaved rājaṃs taptakuṇḍalavigrahaḥ
   gavāṃ śatasahasrasya phalaṃ caivāpnuyān mahat
102 girimuñjaṃ samāsādya triṣu lokeṣu viśrutam
   pitā mahaṃ namaskṛtya gosahasraphalaṃ labhet
103 tato gaccheta dharmajña vimalaṃ tīrtham uttamam
   adyāpi yatra dṛśyante matsyāḥ sauvarṇarājatāḥ
104 tatra snātvā naraśreṣṭha vājapeyam avāpnuyāt
   sarvapāpaviśuddhātmā gacchec ca paramāṃ gatim
105 tato gaccheta maladāṃ triṣu lokeṣu viśrutām
   paścimāyāṃ tu saṃdhyāyām upaspṛśya yathāvidhi
106 caruṃ narendra saptārcer yathāśakti nivedayet
   pitṝṇām akṣayaṃ dānaṃ pravadanti manīṣiṇaḥ
107 gavāṃ śatasahasreṇa rājasūya śatena ca
   aśvamedha sahasreṇa śreyān saptārciṣaś caruḥ
108 tato nivṛtto rājendra vastrā padam athāviśet
   abhigamya mahādevam aśvamedha phalaṃ labhet
109 maṇimantaṃ samāsādya brahma cārī samāhitaḥ
   ekarātroṣito rājann agniṣṭoma phalaṃ labhet
110 atha gaccheta rājendra devikāṃ lokaviśrutām
   prasūtir yatra viprāṇāṃ śrūyate bharatarṣabha
111 triśūlapāṇeḥ sthānaṃ ca triṣu lokeṣu viśrutam
   devikāyāṃ naraḥ snātvā samabhyarcya maheśvaram
112 yathāśakti caruṃ tatra nivedya bharatarṣabha
   sarvakāmasamṛddhasya yajñasya labhate phalam
113 kāmākhyaṃ tatra rudrasya tīrthaṃ devarṣisevitam
   tatra snātvā naraḥ kṣipraṃ siddhim āpnoti bhārata
114 yajanaṃ yājanaṃ gatvā tathaiva brahma vālukām
   puṣpanyāsa upaspṛśya na śocen maraṇaṃ tataḥ
115 ardhayojanavistārāṃ pañcayojanam āyatām
   etāvad devikām āhuḥ puṇyāṃ devarṣisevitām
116 tato gaccheta dharmajña dīrghasatraṃ yathākramam
   yatra brahmādayo devāḥ siddhāś ca paramarṣayaḥ
   dīrghasatram upāsante dakṣiṇābhir yatavratāḥ
117 gamanād eva rājendra dīrghasatram ariṃdama
   rājasūyāśvamedhābhyāṃ phalaṃ prāpnoti mānavaḥ
118 tato vinaśanaṃ gacchen niyato niyatāśanaḥ
   gacchaty antarhitā yatra maru pṛṣṭhe sarasvatī
   camase ca śivodbhede nāgodbhede ca dṛśyate
119 snātvā ca camasodbhede agniṣṭoma phalaṃ labhet
   śivodbhede naraḥ snātvā gosahasraphalaṃ labhet
120 nāgodbhede naraḥ snātvā nāgalokam avāpnuyāt
   śaśayānaṃ ca rājendra tīrtham āsādya durlabham
   śaśarūpapratichannāḥ puṣkarā yatra bhārata
121 sarasvatyāṃ mahārāja anu saṃvatsaraṃ hi te
   snāyante bharataśreṣṭha vṛttāṃ vai kārtikīṃ sadā
122 tatra snātvā naravyāghra dyotate śaśivat sadā
   gosahasrapalaṃ caiva prāpnuyād bharatarṣabha
123 kumāra koṭim āsādya niyataḥ kurunandana
   tatrābhiṣekaṃ kurvīta pitṛdevārcane rataḥ
   gavāmayam avāpnoti kulaṃ caiva samuddharet
124 tato gaccheta dharmajña rudra koṭiṃ samāhitaḥ
   purā yatra mahārāja ṛṣikoṭiḥ samāhitā
   praharṣeṇa ca saṃviṣṭā deva darśanakāṅkṣayā
125 ahaṃ pūrvam ahaṃ pūrvaṃ drakṣyāmi vṛṣabhadhvajam
   evaṃ saṃprasthitā rājann ṛṣayaḥ kila bhārata
126 tato yogeṣvareṇāpi yogam āsthāya bhūpate
   teṣāṃ manyupraṇāśārtham ṛṣīṇāṃ bhāvitātmanām
127 sṛṣṭā koṭis tu rudrāṇām ṛṣīṇām agrataḥ sthitā
   mayā pūrvataraṃ dṛṣṭa iti te menire pṛthak
128 teṣāṃ tuṣṭo mahādeva ṛṣīṇām ugratejasām
   bhaktyā paramayā rājan varaṃ teṣāṃ pradiṣṭavān
   adya prabhṛti yuṣmākaṃ dharmavṛddhir bhaviṣyati
129 tatra snātvā naravyāghra rudra koṭyāṃ naraḥ śuciḥ
   aśvamedham avāpnoti kulaṃ caiva samuddharet
130 tato gaccheta rājendra saṃgamaṃ lokaviśrutam
   sarasvatyā mahāpuṇyam upāsante janārdanam
131 yatra brahmādayo devā ṛṣayaḥ siddhacāraṇāḥ
   abhigacchanti rājendra caitraśuklacaturdaśīm
132 tatra snātvā naravyāghra vinded bahusuvarṇakam
   sarvapāpaviśuddhātmā brahmalokaṃ ca gacchati
133 ṛṣīṇāṃ yatra satrāṇi samāptāni narādhipa
   satrāvasānam āsādya gosahasraphalaṃ labhet


Next: Chapter 81