Hinduism  Mahabharata  Index  Book 3 Index  Previous  Next 

Book 3 in English

The Mahabharata in Sanskrit

Book 3
Chapter 83

 1 [पुलस्त्य]
    अथ संध्यां समासाद्य संवेद्यं तीर्थम उत्तमम
    उपस्पृश्य नरॊ विद्वान भवेन नास्त्य अत्र संशयः
 2 रामस्य च परसादेन तीर्थं राजन कृतं पुरा
    तल लॊहित्यं समासाद्य विन्द्याद बहुसुवर्णकम
 3 करतॊयां समासाद्य तरिरात्रॊपॊषितॊ नरः
    अश्वमेधम अवाप्नॊति कृते पैतामहे विधौ
 4 गङ्गायास तव अथ राजेन्द्र सागरस्य च संगमे
    अश्वमेधं दशगुणं परवदन्ति मनीषिणः
 5 गङ्गायास तव अपरं दवीपं पराप्य यः सनाति भारत
    तरिरात्रॊपॊषितॊ राजन सर्वकामान अवाप्नुयात
 6 ततॊ वैतरणीं गत्वा नदीं पापप्रमॊचनीम
    विरजं तीर्थम आसाद्य विराजति यथा शशी
 7 परभवेच च कुले पुण्ये सर्वपापं वयपॊहति
    गॊसहस्रफलं लब्ध्वा पुनाति च कुलं नरः
 8 शॊणस्य जयॊतिरथ्याश च संगमे निवसञ शुचिः
    तर्पयित्वा पितॄन देवान अग्निष्टॊम फलं लभेत
 9 शॊणस्य नर्मदायाश च परभवे कुरुनन्दन
    वंशगुल्म उपस्पृश्य वाजिमेधफलं लभेत
 10 ऋषभं तीर्थम आसाद्य कॊशलायां नराधिप
   वाजपेयम अवाप्नॊति तरिरात्रॊपॊषितॊ नरः
 11 कॊशलायां समासाद्य कालतीर्थ उपस्पृशेत
   वृशभैकादश फलं लभते नात्र संशयः
 12 पुष्पवत्याम उपस्पृश्य तरिरात्रॊपॊषितॊ नरः
   गॊसहस्रफलं विन्द्यात कुलं चैव समुद्धरेत
 13 ततॊ बदरिका तीर्थे सनात्वा परयत मानसः
   दीर्घम आयुर अवाप्नॊति सवर्गलॊकं च गच्छति
 14 ततॊ महेन्द्रम आसाद्य जामदग्न्य निषेवितम
   राम तीर्थे नरः सनात्वा वाजिमेधफलं लभेत
 15 मतङ्गस्य तु केदारस तत्रैव कुरुनन्दन
   तत्र सनात्वा नरॊ राजन गॊसहस्रफलं लभेत
 16 शरीपर्वतं समासाद्य नदीतीर उपस्पृशेत
   अश्वमेधम अवाप्नॊति सवर्गलॊकं च गच्छति
 17 शरीपर्वते महादेवॊ देव्या सह महाद्युतिः
   नयवसत परमप्रीतॊ बरह्मा च तरिदशैर वृतः
 18 तत्र देव हरदे सनात्वा शुचिः परयत मानसः
   अश्वमेधम अवाप्नॊति परां सिद्धिं च गच्छति
 19 ऋषभं पर्वतं गत्वा पाण्ड्येषु सुरपूजितम
   वाजपेयम अवाप्नॊति नाकपृष्ठे च मॊदते
 20 ततॊ गच्छेत कावेरीं वृताम अप्सरसां गणैः
   तत्र सनात्वा नरॊ राजन गॊसहस्रफलं लभेत
 21 ततस तीरे समुद्रस्य कन्या तीर्थ उपस्पृशेत
   तत्रॊपस्पृश्य राजेन्द्र सर्वपापैः परमुच्यते
 22 अथ गॊकर्णम आसाद्य तरिषु लॊकेषु विश्रुतम
   समुद्रमध्ये राजेन्द्र सर्वलॊकनमस्कृतम
 23 यत्र बरह्मादयॊ देवा ऋषयश च तपॊधनाः
   भूतयक्षपिशाचाश च किंनराः स महॊरगाः
 24 सिद्धचारणगन्धर्वा मानुषाः पन्नगास तथा
   सरितः सागराः शैला उपासन्त उमा पतिम
 25 तत्रेशानं समभ्यर्च्य तरिरात्रॊपॊषितॊ नरः
   दशाश्वमेधम आप्नॊति गाणपत्यं च विन्दति
   उष्य दवादश रात्रं तु कृतात्मा भवते नरः
 26 तत एव तु गायत्र्याः सथानं तरैलॊक्यविश्रुतम
   तरिरात्रम उषितस तत्र गॊसहस्रफलं लभेत
 27 निदर्शनं च परत्यक्षं बराह्मणानां नराधिप
   गायत्रीं पठते यस तु यॊनिसंकरजस तथा
   गाथा वा गीतिका वापि तस्य संपद्यते नृप
 28 संवर्तस्य तु विप्रर्षेर वापीम आसाद्य दुर्लभाम
   रूपस्य भागी भवति सुभगश चैव जायते
 29 ततॊ वेण्णां समासाद्य तर्पयेत पितृदेवताः
   मयूरहंससंयुक्तं विमानं लभते नरः
 30 ततॊ गॊदावरीं पराप्य नित्यं सिद्धनिषेविताम
   गवाम अयम अवाप्नॊति वासुकेर लॊकम आप्नुयात
 31 वेण्णायाः संगमे सनात्वा वाजपेयफलं लभेत
   वरदा संगमे सनात्वा गॊसहस्रफलं लभेत
 32 बरह्म सथानं समासाद्य तरिरात्रम उषितॊ नरः
   गॊसहस्रफलं विन्देत सवर्गलॊकं च गच्छति
 33 कुशप्लवनम आसाद्य बरह्म चारी समाहितः
   तरिरात्रम उषितः सनात्वा अश्वमेध फलं लभेत
 34 ततॊ देव हरदे रम्ये कृष्ण वेण्णा जलॊद्भवे
   जातिमात्रह्रदे चैव तथा कन्याश्रमे नृप
 35 यत्र करतुशतैर इष्ट्वा देवराजॊ दिवं गतः
   अग्निष्टॊम शतं विन्देद गमनाद एव भारत
 36 सर्वदेव हरदे सनात्वा गॊसहस्रफलं लभेत
   जातिमात्रह्रदे सनात्वा भवेज जातिस्मरॊ नरः
 37 ततॊ ऽवाप्य महापुण्यां पयॊष्णीं सरितां वराम
   पितृदेवार्चन रतॊ गॊसहस्रफलं लभेत
 38 दण्डकारण्यम आसाद्य महाराज उपस्पृशेत
   गॊसहस्रफलं तत्र सनातमात्रस्य भारत
 39 शरभङ्गाश्रमं गत्वा शुकस्य च महात्मनाः
   न दुर्गतिम अवाप्नॊति पुनाति च कुलं नरः
 40 ततः शूर्पारकं गच्छेज जामदग्न्य निषेवितम
   राम तीर्थे नरः सनात्वा विन्द्याद बहुसुवर्णकम
 41 सप्त गॊदावरे सनात्वा नियतॊ नियताशनः
   महत पुण्यम अवाप्नॊति देवलॊकं च गच्छति
 42 ततॊ देवपथं गच्छेन नियतॊ नियताशनः
   देव सत्रस्य यत पुण्यं तद अवाप्नॊति मानवः
 43 तुङ्गकारण्यम आसाद्य बरह्म चारी जितेन्द्रियः
   वेदान अध्यापयत तत्र ऋषिः सारस्वतः पुरा
 44 तत्र वेदान परनष्टांस तु मुनेर अङ्गिरसः सुतः
   उपविष्टॊ महर्षीणाम उत्तरीयेषु भारत
 45 ओंकारेण यथान्यायं सम्यग उच्चारितेन च
   येन यत पूर्वम अभ्यस्तं तत तस्य समुपस्थितम
 46 ऋषयस तत्र देवाश च वरुणॊ ऽगनिः परजापतिः
   हरिर नारायणॊ देवॊ महादेवस तथैव च
 47 पिता महश च भगवान देवैः सह महाद्युतिः
   भृगुं नियॊजयाम आस याजनार्थे महाद्युतिम
 48 ततः सचक्रे भगवान ऋषीणां विधिवत तदा
   सर्वेषां पुनर आधानं विधिदृष्टेन कर्मणा
 49 आज्यभागेन वै तत्र तर्पितास तु यथाविधि
   देवास तरिभुवणं याता ऋषयश च यथासुखम
 50 तद अरण्यं परविष्टस्य तुङ्गकं राजसत्तम
   पापं परणश्यते सर्वं सत्रियॊ वा पुरुषस्य वा
 51 तत्र मासं वसेद धीरॊ नियतॊ नियताशनः
   बरह्मलॊकं वरजेद राजन पुनीते च कुलं नरः
 52 मेधाविकं समासाद्य पितॄन देवांश च तर्पयेत
   अग्निष्टॊमम अवाप्नॊति समृतिं मेधां च विन्दति
 53 ततः कालंजरं गत्वा पर्वतं लॊकविश्रुतम
   तत्र देव हरदे सनात्वा गॊसहस्रफलं लभेत
 54 आत्मानं साधयेत तत्र गिरौ कालंजरे नृप
   सवर्गलॊके महीयेत नरॊ नास्त्य अत्र संशयः
 55 ततॊ गिरिवरश्रेष्ठे चित्रकूटे विशां पते
   मन्दाकिनीं समासाद्य नदीं पापप्रमॊचिनीम
 56 तत्राभिषेकं कुर्वाणः पितृदेवार्चने रतः
   अश्वमेधम अवाप्नॊति गतिं च परमां वरजेत
 57 ततॊ गच्छेत राजेन्द्र भर्तृस्थानम अनुत्तमम
   यत्र देवॊ महासेनॊ नित्यं संनिहितॊ नृपः
 58 पुमांस तत्र नरश्रेष्ठ गमनाद एव सिध्यति
   कॊटितीर्थे नरः सनात्वा गॊसहस्रफलं लभेत
 59 परदक्षिणम उपावृत्य जयेष्ठस्थानं वरजेन नरः
   अभिगम्य महादेवं विराजति यथा शशी
 60 तत्र कूपॊ महाराज विश्रुतॊ भरतर्षभ
   समुद्रास तत्र चत्वारॊ निवसन्ति युधिष्ठिर
 61 तत्रॊपस्पृश्य राजेन्द्र कृत्वा चापि परदक्षिणम
   नियतात्मा नरः पूतॊ गच्छेत परमां गतिम
 62 ततॊ गच्छेत कुरुश्रेष्ठ शृङ्गवेर पुरं महत
   यत्र तीर्णॊ महाराज रामॊ दाशरथिः पुरा
 63 गङ्गायां तु नरः सनात्वा बरह्म चारी समाहितः
   विधूतपाप्मा भवति वाजपेयं च विन्दति
 64 अभिगम्य महादेवम अभ्यर्च्य च नराधिप
   परदक्षिणम उपावृत्य गाणपत्यम अवाप्नुयात
 65 ततॊ गच्छेत राजेन्द्र परयागम ऋषिसंस्तुतम
   यत्र बरह्मादयॊ देवा दिशश च स दिग ईश्वराः
 66 लॊकपालाश च साध्याश च नैरृताः पितरस तथा
   सनत कुमार परमुखास तथैव परमर्षयः
 67 अङ्गिरः परमुखाश चैव तथा बरह्मर्षयॊ ऽपरे
   तथा नागाः सुपर्णाश च सिद्धाश चक्रचरास तथा
 68 सरितः सागराश चैव गन्धर्वाप्सरसस तथा
   हरिश च भगवान आस्ते परजापतिपुरस्कृतः
 69 तत्र तरीण्य अग्निकुण्डानि येषां मध्ये च जाह्नवी
   परयागाद अभिनिष्क्रान्ता सर्वतीर्थपुरस्कृता
 70 तपनस्य सुता तत्र तरिषु लॊकेषु विश्रुता
   यमुना गङ्गया सार्धं संगता लॊकपावनी
 71 गङ्गायमुनयॊर मद्यं पृथिव्या जघनं समृतम
   परयागं जघनस्यान्तम उपस्थम ऋषयॊ विदुः
 72 परयागं स परतिष्ठानं कम्बलाश्वतरौ तथा
   तीर्थं भॊगवती चैव वेदी परॊक्ता परजापतेः
 73 तत्र वेदाश च यज्ञाश च मूर्तिमन्तॊ युधिष्ठिर
   परजापतिम उपासन्ते ऋषयश च महाव्रताः
   यजन्ते करतुभिर देवास तथा चक्रचरा नृप
 74 ततः पुण्यतमं नास्ति तरिषु लॊकेषु भारत
   परयागः सर्वतीर्थेभ्यः परभवत्य अधिकं विभॊ
 75 शरवणात तस्य तीर्थस्य नाम संकीर्तनाद अपि
   मृत्तिका लम्भनाद वापि नरः पापात परमुच्यते
 76 तत्राभिषेकं यः कुर्यात संगमे संशितव्रतः
   पुण्यं सफलम आप्नॊति राजसूयाश्वमेधयॊः
 77 एषा यजन भूमिर हि देवानाम अपि सत्कृता
   तत्र दत्तं सूक्ष्मम अपि महद भवति भारत
 78 न वेद वचनात तात न लॊकवचनाद अपि
   मतिर उत्क्रमणीया ते परयागमरणं परति
 79 दश तीर्थसहस्राणि षष्टिकॊट्त्यस तथापराः
   येषां सांनिध्यम अत्रैव कीर्तितं कुरुनन्दन
 80 चातुर्वेदे च यत पुण्यं सत्यवादिषु चैव यत
   सनात एव तदाप्नॊति गङ्गा यमुन संगमे
 81 तत्र भॊगवती नाम वासुकेस तीर्थम उत्तमम
   तत्राभिषेकं यः कुर्यात सॊ ऽशवमेधम अवाप्नुयात
 82 तत्र हंसप्रपतनं तीर्थं तरैलॊक्यविश्रुतम
   दशाश्वमेधिकं चैव गङ्गायां कुरुनन्दन
 83 यत्र गङ्गा महाराज स देशस तत तपॊवनम
   सिद्धक्षेत्रं तु तज जञेयं गङ्गातीरसमाश्रितम
 84 इदं सत्यं दविजातीनां साधूनाम आत्मजस्य च
   सुहृदां च जपेत कर्णे शिष्यस्यानुगतस्य च
 85 इदं धर्म्यम इदं पुण्यम इदं मेध्यम इदं सुखम
   इदं सवर्ग्यम इदं रम्यम इदं पावनम उत्तमम
 86 महर्षीणाम इदं गुह्यं सर्पपापप्रमॊचनम
   अधीत्य दविजमध्ये च निर्मलत्वम अवाप्नुयात
 87 यश चेदं शृणुयान नित्यं तीर्थपुण्यं सदा शुचिः
   जातीः स समरते बह्वीर नाकपृष्ठे च मॊदते
 88 गम्यान्य अपि च तीर्थानि कीर्तितान्य अगमानि च
   मनसा तानि गच्छेत सर्वतीर्थसमीक्षया
 89 एतानि वसुभिः साध्यैर आदित्यैर मरुद अश्विभिः
   ऋषिभिर देवकल्पैश च शरितानि सुकृतैषिभिः
 90 एवं तवम अपि कौरव्य विधिनानेन सुव्रत
   वरज तीर्थानि नियतः पुण्यं पुण्येन वर्धते
 91 भावितैः कारणैः पूर्वम आस्तिक्याच छरुति दर्शनात
   पराप्यन्ते तानि तीर्थानि सद्भिः शिष्टानुदर्शिभिः
 92 नाव्रतॊ नाकृतात्मा च नाशुचिर न च तस्करः
   सनाति तीर्थेषु कौरव्य न च वक्रमतिर नरः
 93 तवया तु सम्यग्वृत्तेन नित्यं धर्मार्थदर्शिना
   पितरस तारितास तात सर्वे च परपिता महाः
 94 पिता मह पुरॊगाश च देवाः सर्षिगणा नृप
   तव धर्मेण धर्मज्ञ नित्यम एवाभितॊषिताः
 95 अवाप्स्यसि च लॊकान वै वसूनां वासवॊपम
   कीर्तिं च महतीं भीष्म पराप्स्यसे भुवि शाश्वतीम
 96 [नारद]
   एवम उक्त्वाभ्यनुज्ञाप्य पुलस्त्यॊ भगवान ऋषिः
   परीतः परीतेन मनसा तत्रैवान्तरधीयते
 97 भीष्मश च कुरुशार्दूल शास्त्रतत्त्वार्थ दर्शिवान
   पुलस्त्यवचनाच चैव पृथिवीम अनुचक्रमे
 98 अनेन विधिना यस तु पृथिवीं संचरिष्यति
   अश्वमेध शतस्याग्र्यं फलं परेत्य स भॊक्ष्यते
 99 अतश चाष्ट गुणं पार्थ पराप्स्यसे धर्मम उत्तमम
   नेता च तवम ऋषीन यस्मात तेन ते ऽषट गुणं फलम
 100 रक्षॊगणावकीर्णानि तीर्थान्य एतानि भारत
   न गतिर विद्यते ऽनयस्य तवाम ऋते कुरुनन्दन
101 इदं देवर्षिचरितं सर्वतीर्थार्थ संश्रितम
   यः पठेत कल्यम उत्थाय सर्वपापैः परमुच्यते
102 ऋषिमुख्याः सदा यत्र वाल्मीकिस तव अथ काश्यपः
   आत्रेयस तव अथ कौण्डिन्यॊ विश्वा मित्रॊ ऽथ गौतमः
103 असितॊ देवलश चैव मार्कण्डेयॊ ऽथ गालवः
   भरद वाजॊ वसिष्ठश च मुनिर उद्दालकस तथा
104 शौनकः सह पुत्रेण वयासश च जपतां वरः
   दुर्वासाश च मुनिश्रेष्ठॊ गालवश च महातपः
105 एते ऋषिवराः सर्वे तवत्प्रतीक्षास तपॊधनाः
   एभिः सह महाराज तीर्थान्य एतान्य अनुव्रज
106 एष वै लॊमशॊ नाम देवर्षिर अमितद्युतिः
   समेष्यति तवया चैव तेन सार्धम अनुव्रज
107 मया च सहधर्मज्ञ तीर्थान्य एतान्य अनुव्रज
   पराप्स्यसे महतीं कीर्तिं यथा राजा महाभिषः
108 यथा ययातिर धर्मात्मा यथा राजा पुरूरवः
   तथा तवं कुरुशार्दूल सवेन धर्मेण शॊभसे
109 यथा भगीरथॊ राजा यथा रामश च विश्रुतः
   तथा तवं सर्वराजभ्यॊ भराजसे रश्मिवान इव
110 यथा मनुर यथेक्ष्वाकुर यथा पूरुर महायशाः
   यथा वैन्यॊ महातेजास तथा तवम अपि विश्रुतः
111 यथा च वृत्रहा सर्वान सपत्नान निर्दहत पुरा
   तथा शत्रुक्षयं कृत्वा परजास तवं पालयिष्यसि
112 सवधर्मविजिताम उर्वीं पराप्य राजीवलॊचन
   खयातिं यास्यसि धर्मेण कार्तवीर्यार्जुनॊ यथा
113 [व]
   एवम आश्वास्य राजानं नारदॊ भगवान ऋषिः
   अनुज्ञाप्य महात्मानं तत्रैवान्तरधीयत
114 युधिष्ठिरॊ ऽपि धर्मात्मा तम एवार्थं विचिन्तयन
   तीर्थयात्राश्रयं पुण्यम ऋषीणां परत्यवेदयत
 1 [pulastya]
    atha saṃdhyāṃ samāsādya saṃvedyaṃ tīrtham uttamam
    upaspṛśya naro vidvān bhaven nāsty atra saṃśayaḥ
 2 rāmasya ca prasādena tīrthaṃ rājan kṛtaṃ purā
    tal lohityaṃ samāsādya vindyād bahusuvarṇakam
 3 karatoyāṃ samāsādya trirātropoṣito naraḥ
    aśvamedham avāpnoti kṛte paitāmahe vidhau
 4 gaṅgāyās tv atha rājendra sāgarasya ca saṃgame
    aśvamedhaṃ daśaguṇaṃ pravadanti manīṣiṇaḥ
 5 gaṅgāyās tv aparaṃ dvīpaṃ prāpya yaḥ snāti bhārata
    trirātropoṣito rājan sarvakāmān avāpnuyāt
 6 tato vaitaraṇīṃ gatvā nadīṃ pāpapramocanīm
    virajaṃ tīrtham āsādya virājati yathā śaśī
 7 prabhavec ca kule puṇye sarvapāpaṃ vyapohati
    gosahasraphalaṃ labdhvā punāti ca kulaṃ naraḥ
 8 śoṇasya jyotirathyāś ca saṃgame nivasañ śuciḥ
    tarpayitvā pitṝn devān agniṣṭoma phalaṃ labhet
 9 śoṇasya narmadāyāś ca prabhave kurunandana
    vaṃśagulma upaspṛśya vājimedhaphalaṃ labhet
 10 ṛṣabhaṃ tīrtham āsādya kośalāyāṃ narādhipa
   vājapeyam avāpnoti trirātropoṣito naraḥ
 11 kośalāyāṃ samāsādya kālatīrtha upaspṛśet
   vṛśabhaikādaśa phalaṃ labhate nātra saṃśayaḥ
 12 puṣpavatyām upaspṛśya trirātropoṣito naraḥ
   gosahasraphalaṃ vindyāt kulaṃ caiva samuddharet
 13 tato badarikā tīrthe snātvā prayata mānasaḥ
   dīrgham āyur avāpnoti svargalokaṃ ca gacchati
 14 tato mahendram āsādya jāmadagnya niṣevitam
   rāma tīrthe naraḥ snātvā vājimedhaphalaṃ labhet
 15 mataṅgasya tu kedāras tatraiva kurunandana
   tatra snātvā naro rājan gosahasraphalaṃ labhet
 16 śrīparvataṃ samāsādya nadītīra upaspṛśet
   aśvamedham avāpnoti svargalokaṃ ca gacchati
 17 śrīparvate mahādevo devyā saha mahādyutiḥ
   nyavasat paramaprīto brahmā ca tridaśair vṛtaḥ
 18 tatra deva hrade snātvā śuciḥ prayata mānasaḥ
   aśvamedham avāpnoti parāṃ siddhiṃ ca gacchati
 19 ṛṣabhaṃ parvataṃ gatvā pāṇḍyeṣu surapūjitam
   vājapeyam avāpnoti nākapṛṣṭhe ca modate
 20 tato gaccheta kāverīṃ vṛtām apsarasāṃ gaṇaiḥ
   tatra snātvā naro rājan gosahasraphalaṃ labhet
 21 tatas tīre samudrasya kanyā tīrtha upaspṛśet
   tatropaspṛśya rājendra sarvapāpaiḥ pramucyate
 22 atha gokarṇam āsādya triṣu lokeṣu viśrutam
   samudramadhye rājendra sarvalokanamaskṛtam
 23 yatra brahmādayo devā ṛṣayaś ca tapodhanāḥ
   bhūtayakṣapiśācāś ca kiṃnarāḥ sa mahoragāḥ
 24 siddhacāraṇagandharvā mānuṣāḥ pannagās tathā
   saritaḥ sāgarāḥ śailā upāsanta umā patim
 25 tatreśānaṃ samabhyarcya trirātropoṣito naraḥ
   daśāśvamedham āpnoti gāṇapatyaṃ ca vindati
   uṣya dvādaśa rātraṃ tu kṛtātmā bhavate naraḥ
 26 tata eva tu gāyatryāḥ sthānaṃ trailokyaviśrutam
   trirātram uṣitas tatra gosahasraphalaṃ labhet
 27 nidarśanaṃ ca pratyakṣaṃ brāhmaṇānāṃ narādhipa
   gāyatrīṃ paṭhate yas tu yonisaṃkarajas tathā
   gāthā vā gītikā vāpi tasya saṃpadyate nṛpa
 28 saṃvartasya tu viprarṣer vāpīm āsādya durlabhām
   rūpasya bhāgī bhavati subhagaś caiva jāyate
 29 tato veṇṇāṃ samāsādya tarpayet pitṛdevatāḥ
   mayūrahaṃsasaṃyuktaṃ vimānaṃ labhate naraḥ
 30 tato godāvarīṃ prāpya nityaṃ siddhaniṣevitām
   gavām ayam avāpnoti vāsuker lokam āpnuyāt
 31 veṇṇāyāḥ saṃgame snātvā vājapeyaphalaṃ labhet
   varadā saṃgame snātvā gosahasraphalaṃ labhet
 32 brahma sthānaṃ samāsādya trirātram uṣito naraḥ
   gosahasraphalaṃ vindet svargalokaṃ ca gacchati
 33 kuśaplavanam āsādya brahma cārī samāhitaḥ
   trirātram uṣitaḥ snātvā aśvamedha phalaṃ labhet
 34 tato deva hrade ramye kṛṣṇa veṇṇā jalodbhave
   jātimātrahrade caiva tathā kanyāśrame nṛpa
 35 yatra kratuśatair iṣṭvā devarājo divaṃ gataḥ
   agniṣṭoma śataṃ vinded gamanād eva bhārata
 36 sarvadeva hrade snātvā gosahasraphalaṃ labhet
   jātimātrahrade snātvā bhavej jātismaro naraḥ
 37 tato 'vāpya mahāpuṇyāṃ payoṣṇīṃ saritāṃ varām
   pitṛdevārcana rato gosahasraphalaṃ labhet
 38 daṇḍakāraṇyam āsādya mahārāja upaspṛśet
   gosahasraphalaṃ tatra snātamātrasya bhārata
 39 śarabhaṅgāśramaṃ gatvā śukasya ca mahātmanāḥ
   na durgatim avāpnoti punāti ca kulaṃ naraḥ
 40 tataḥ śūrpārakaṃ gacchej jāmadagnya niṣevitam
   rāma tīrthe naraḥ snātvā vindyād bahusuvarṇakam
 41 sapta godāvare snātvā niyato niyatāśanaḥ
   mahat puṇyam avāpnoti devalokaṃ ca gacchati
 42 tato devapathaṃ gacchen niyato niyatāśanaḥ
   deva satrasya yat puṇyaṃ tad avāpnoti mānavaḥ
 43 tuṅgakāraṇyam āsādya brahma cārī jitendriyaḥ
   vedān adhyāpayat tatra ṛṣiḥ sārasvataḥ purā
 44 tatra vedān pranaṣṭāṃs tu muner aṅgirasaḥ sutaḥ
   upaviṣṭo maharṣīṇām uttarīyeṣu bhārata
 45 oṃkāreṇa yathānyāyaṃ samyag uccāritena ca
   yena yat pūrvam abhyastaṃ tat tasya samupasthitam
 46 ṛṣayas tatra devāś ca varuṇo 'gniḥ prajāpatiḥ
   harir nārāyaṇo devo mahādevas tathaiva ca
 47 pitā mahaś ca bhagavān devaiḥ saha mahādyutiḥ
   bhṛguṃ niyojayām āsa yājanārthe mahādyutim
 48 tataḥ sacakre bhagavān ṛṣīṇāṃ vidhivat tadā
   sarveṣāṃ punar ādhānaṃ vidhidṛṣṭena karmaṇā
 49 ājyabhāgena vai tatra tarpitās tu yathāvidhi
   devās tribhuvaṇaṃ yātā ṛṣayaś ca yathāsukham
 50 tad araṇyaṃ praviṣṭasya tuṅgakaṃ rājasattama
   pāpaṃ praṇaśyate sarvaṃ striyo vā puruṣasya vā
 51 tatra māsaṃ vased dhīro niyato niyatāśanaḥ
   brahmalokaṃ vrajed rājan punīte ca kulaṃ naraḥ
 52 medhāvikaṃ samāsādya pitṝn devāṃś ca tarpayet
   agniṣṭomam avāpnoti smṛtiṃ medhāṃ ca vindati
 53 tataḥ kālaṃjaraṃ gatvā parvataṃ lokaviśrutam
   tatra deva hrade snātvā gosahasraphalaṃ labhet
 54 ātmānaṃ sādhayet tatra girau kālaṃjare nṛpa
   svargaloke mahīyeta naro nāsty atra saṃśayaḥ
 55 tato girivaraśreṣṭhe citrakūṭe viśāṃ pate
   mandākinīṃ samāsādya nadīṃ pāpapramocinīm
 56 tatrābhiṣekaṃ kurvāṇaḥ pitṛdevārcane rataḥ
   aśvamedham avāpnoti gatiṃ ca paramāṃ vrajet
 57 tato gaccheta rājendra bhartṛsthānam anuttamam
   yatra devo mahāseno nityaṃ saṃnihito nṛpaḥ
 58 pumāṃs tatra naraśreṣṭha gamanād eva sidhyati
   koṭitīrthe naraḥ snātvā gosahasraphalaṃ labhet
 59 pradakṣiṇam upāvṛtya jyeṣṭhasthānaṃ vrajen naraḥ
   abhigamya mahādevaṃ virājati yathā śaśī
 60 tatra kūpo mahārāja viśruto bharatarṣabha
   samudrās tatra catvāro nivasanti yudhiṣṭhira
 61 tatropaspṛśya rājendra kṛtvā cāpi pradakṣiṇam
   niyatātmā naraḥ pūto gaccheta paramāṃ gatim
 62 tato gacchet kuruśreṣṭha śṛṅgavera puraṃ mahat
   yatra tīrṇo mahārāja rāmo dāśarathiḥ purā
 63 gaṅgāyāṃ tu naraḥ snātvā brahma cārī samāhitaḥ
   vidhūtapāpmā bhavati vājapeyaṃ ca vindati
 64 abhigamya mahādevam abhyarcya ca narādhipa
   pradakṣiṇam upāvṛtya gāṇapatyam avāpnuyāt
 65 tato gaccheta rājendra prayāgam ṛṣisaṃstutam
   yatra brahmādayo devā diśaś ca sa dig īśvarāḥ
 66 lokapālāś ca sādhyāś ca nairṛtāḥ pitaras tathā
   sanat kumāra pramukhās tathaiva paramarṣayaḥ
 67 aṅgiraḥ pramukhāś caiva tathā brahmarṣayo 'pare
   tathā nāgāḥ suparṇāś ca siddhāś cakracarās tathā
 68 saritaḥ sāgarāś caiva gandharvāpsarasas tathā
   hariś ca bhagavān āste prajāpatipuraskṛtaḥ
 69 tatra trīṇy agnikuṇḍāni yeṣāṃ madhye ca jāhnavī
   prayāgād abhiniṣkrāntā sarvatīrthapuraskṛtā
 70 tapanasya sutā tatra triṣu lokeṣu viśrutā
   yamunā gaṅgayā sārdhaṃ saṃgatā lokapāvanī
 71 gaṅgāyamunayor madyaṃ pṛthivyā jaghanaṃ smṛtam
   prayāgaṃ jaghanasyāntam upastham ṛṣayo viduḥ
 72 prayāgaṃ sa pratiṣṭhānaṃ kambalāśvatarau tathā
   tīrthaṃ bhogavatī caiva vedī proktā prajāpateḥ
 73 tatra vedāś ca yajñāś ca mūrtimanto yudhiṣṭhira
   prajāpatim upāsante ṛṣayaś ca mahāvratāḥ
   yajante kratubhir devās tathā cakracarā nṛpa
 74 tataḥ puṇyatamaṃ nāsti triṣu lokeṣu bhārata
   prayāgaḥ sarvatīrthebhyaḥ prabhavaty adhikaṃ vibho
 75 śravaṇāt tasya tīrthasya nāma saṃkīrtanād api
   mṛttikā lambhanād vāpi naraḥ pāpāt pramucyate
 76 tatrābhiṣekaṃ yaḥ kuryāt saṃgame saṃśitavrataḥ
   puṇyaṃ saphalam āpnoti rājasūyāśvamedhayoḥ
 77 eṣā yajana bhūmir hi devānām api satkṛtā
   tatra dattaṃ sūkṣmam api mahad bhavati bhārata
 78 na veda vacanāt tāta na lokavacanād api
   matir utkramaṇīyā te prayāgamaraṇaṃ prati
 79 daśa tīrthasahasrāṇi ṣaṣṭikoṭtyas tathāparāḥ
   yeṣāṃ sāṃnidhyam atraiva kīrtitaṃ kurunandana
 80 cāturvede ca yat puṇyaṃ satyavādiṣu caiva yat
   snāta eva tadāpnoti gaṅgā yamuna saṃgame
 81 tatra bhogavatī nāma vāsukes tīrtham uttamam
   tatrābhiṣekaṃ yaḥ kuryāt so 'śvamedham avāpnuyāt
 82 tatra haṃsaprapatanaṃ tīrthaṃ trailokyaviśrutam
   daśāśvamedhikaṃ caiva gaṅgāyāṃ kurunandana
 83 yatra gaṅgā mahārāja sa deśas tat tapovanam
   siddhakṣetraṃ tu taj jñeyaṃ gaṅgātīrasamāśritam
 84 idaṃ satyaṃ dvijātīnāṃ sādhūnām ātmajasya ca
   suhṛdāṃ ca japet karṇe śiṣyasyānugatasya ca
 85 idaṃ dharmyam idaṃ puṇyam idaṃ medhyam idaṃ sukham
   idaṃ svargyam idaṃ ramyam idaṃ pāvanam uttamam
 86 maharṣīṇām idaṃ guhyaṃ sarpapāpapramocanam
   adhītya dvijamadhye ca nirmalatvam avāpnuyāt
 87 yaś cedaṃ śṛṇuyān nityaṃ tīrthapuṇyaṃ sadā śuciḥ
   jātīḥ sa smarate bahvīr nākapṛṣṭhe ca modate
 88 gamyāny api ca tīrthāni kīrtitāny agamāni ca
   manasā tāni gaccheta sarvatīrthasamīkṣayā
 89 etāni vasubhiḥ sādhyair ādityair marud aśvibhiḥ
   ṛṣibhir devakalpaiś ca śritāni sukṛtaiṣibhiḥ
 90 evaṃ tvam api kauravya vidhinānena suvrata
   vraja tīrthāni niyataḥ puṇyaṃ puṇyena vardhate
 91 bhāvitaiḥ kāraṇaiḥ pūrvam āstikyāc chruti darśanāt
   prāpyante tāni tīrthāni sadbhiḥ śiṣṭānudarśibhiḥ
 92 nāvrato nākṛtātmā ca nāśucir na ca taskaraḥ
   snāti tīrtheṣu kauravya na ca vakramatir naraḥ
 93 tvayā tu samyagvṛttena nityaṃ dharmārthadarśinā
   pitaras tāritās tāta sarve ca prapitā mahāḥ
 94 pitā maha purogāś ca devāḥ sarṣigaṇā nṛpa
   tava dharmeṇa dharmajña nityam evābhitoṣitāḥ
 95 avāpsyasi ca lokān vai vasūnāṃ vāsavopama
   kīrtiṃ ca mahatīṃ bhīṣma prāpsyase bhuvi śāśvatīm
 96 [nārada]
   evam uktvābhyanujñāpya pulastyo bhagavān ṛṣiḥ
   prītaḥ prītena manasā tatraivāntaradhīyate
 97 bhīṣmaś ca kuruśārdūla śāstratattvārtha darśivān
   pulastyavacanāc caiva pṛthivīm anucakrame
 98 anena vidhinā yas tu pṛthivīṃ saṃcariṣyati
   aśvamedha śatasyāgryaṃ phalaṃ pretya sa bhokṣyate
 99 ataś cāṣṭa guṇaṃ pārtha prāpsyase dharmam uttamam
   netā ca tvam ṛṣīn yasmāt tena te 'ṣṭa guṇaṃ phalam
 100 rakṣogaṇāvakīrṇāni tīrthāny etāni bhārata
   na gatir vidyate 'nyasya tvām ṛte kurunandana
101 idaṃ devarṣicaritaṃ sarvatīrthārtha saṃśritam
   yaḥ paṭhet kalyam utthāya sarvapāpaiḥ pramucyate
102 ṛṣimukhyāḥ sadā yatra vālmīkis tv atha kāśyapaḥ
   ātreyas tv atha kauṇḍinyo viśvā mitro 'tha gautamaḥ
103 asito devalaś caiva mārkaṇḍeyo 'tha gālavaḥ
   bharad vājo vasiṣṭhaś ca munir uddālakas tathā
104 śaunakaḥ saha putreṇa vyāsaś ca japatāṃ varaḥ
   durvāsāś ca muniśreṣṭho gālavaś ca mahātapaḥ
105 ete ṛṣivarāḥ sarve tvatpratīkṣās tapodhanāḥ
   ebhiḥ saha mahārāja tīrthāny etāny anuvraja
106 eṣa vai lomaśo nāma devarṣir amitadyutiḥ
   sameṣyati tvayā caiva tena sārdham anuvraja
107 mayā ca sahadharmajña tīrthāny etāny anuvraja
   prāpsyase mahatīṃ kīrtiṃ yathā rājā mahābhiṣaḥ
108 yathā yayātir dharmātmā yathā rājā purūravaḥ
   tathā tvaṃ kuruśārdūla svena dharmeṇa śobhase
109 yathā bhagīratho rājā yathā rāmaś ca viśrutaḥ
   tathā tvaṃ sarvarājabhyo bhrājase raśmivān iva
110 yathā manur yathekṣvākur yathā pūrur mahāyaśāḥ
   yathā vainyo mahātejās tathā tvam api viśrutaḥ
111 yathā ca vṛtrahā sarvān sapatnān nirdahat purā
   tathā śatrukṣayaṃ kṛtvā prajās tvaṃ pālayiṣyasi
112 svadharmavijitām urvīṃ prāpya rājīvalocana
   khyātiṃ yāsyasi dharmeṇa kārtavīryārjuno yathā
113 [v]
   evam āśvāsya rājānaṃ nārado bhagavān ṛṣiḥ
   anujñāpya mahātmānaṃ tatraivāntaradhīyata
114 yudhiṣṭhiro 'pi dharmātmā tam evārthaṃ vicintayan
   tīrthayātrāśrayaṃ puṇyam ṛṣīṇāṃ pratyavedayat


Next: Chapter 84