Hinduism  Mahabharata  Index  Book 3 Index  Previous  Next 

Book 3 in English

The Mahabharata in Sanskrit

Book 3
Chapter 186

 1 [वै]
    ततः स पुनर एवाथ मार्कण्डेयं यशस्विनम
    पप्रच्छ विनयॊपेतॊ धर्मराजॊ युधिष्ठिरः
 2 नैके युगसहस्रान्तास तवया दृष्टा महामुने
    न चापीह समः कश चिद आयुषा तव विद्यते
    वर्जयित्वा महात्मानं बराह्मणं परमेष्ठिनम
 3 अनन्तरिक्षे लॊके ऽसमिन देवदानव वर्जिते
    तवम एव परलये विप्र बराह्मणम उपतिष्ठसि
 4 परलये चापि निर्वृत्ते परबुद्धे च पितामहे
    तवम एव सृज्यमानानि भूतानीह परपश्यसि
 5 चतुर्विधानि विप्रर्षे यथावत परमेष्ठिना
    वायुभूता दिशः कृत्वा विक्षिप्यापस ततस ततः
 6 तवया लॊकगुरुः साक्षात सर्वलॊकपितामहः
    आराधितॊ दविजश्रेष्ठ तत्परेण समाधिना
 7 तस्मात सर्वान्तकॊ मृत्युर जरा वा देहनाशिनी
    न तवा विशति विप्रर्षे परसादात परमेष्ठिनः
 8 यदा नैव रविर नाग्निर न वायुर न च चन्द्रमः
    नैवान्तरिक्षं नैवॊर्वी शेषं भवति किं चन
 9 तस्मिन्न एकार्णवे लॊके नष्टे सथावरजङ्गमे
    नष्टे देवासुरगणे समुत्सन्न महॊरगे
 10 शयानम अमितात्मानं पद्मे पद्मनिकेतनम
   तवम एकः सर्वभूतेशं बरह्माणम उपतिष्ठसि
 11 एतत परत्यक्षतः सर्वं पूर्ववृत्तं दविजॊत्तम
   तस्माद इच्छामहे शरॊतुं सर्वहेत्व आत्मिकां कथाम
 12 अनुभूतं हि बहुशस तवयैकेन दविजॊत्तम
   न ते ऽसत्य अविदितं किं चित सर्वलॊकेषु नित्यदा
 13 [मार्क]
   हन्त ते कथयिष्यामि नमस्कृत्वा सवयम्भुवे
   पुरुषाय पुराणाय शाश्वतायाव्ययाय च
 14 य एष पृथुदीर्घाक्षः पीतवासा जनार्दनः
   एष कर्ता विकर्ता च सर्वभावन भूतकृत
 15 अचिन्त्यं महद आश्चर्यं पवित्रम अपि चॊत्तमम
   अनादि निधनं भूतं विश्वम अक्षयम अव्ययम
 16 एष कर्ता न करियते कारणं चापि पौरुषे
   यॊ हय एनं पुरुषं वेत्ति देवा अपि न तं विदुः
 17 सर्वम आश्चर्यम एवैतन निर्वृत्तं राजसत्तम
   आदितॊ मनुजव्याघ्रकृत्स्नस्य जगतः कषये
 18 चत्वार्य आहुः सहस्राणि वर्षाणां तत कृतं युगम
   तस्य तावच छती संध्या संध्यांशश च ततः परम
 19 तरीणि वर्षसहस्राणि तरेया युगम इहॊच्यते
   तस्य तावच छती संध्या संध्यांशश च ततः परम
 20 तथा वर्षसहस्रे दवे दवापरं परिमाणतः
   तस्यापि दविशती संध्या संख्यांशश च ततः परम
 21 सहस्रम एकं वर्षाणां ततः कलियुगं समृतम
   तस्य वर्षशतं संध्या संध्यांशश च ततः परम
   संध्यासंध्यांशयॊस तुल्यं परमाणम उपधारय
 22 कषीणे कलियुगे चैव परवर्तति कृतं युगम
   एषा दवादश साहस्री युगाख्या परिकीर्तिता
 23 एतत सहस्रपर्यन्तम अहर बराह्मम उदाहृतम
   विश्वं हि बरह्मभवने सर्वशः परिवर्तते
   लॊकानां मनुजव्याघ्रप्रलयं तं विदुर बुधाः
 24 अल्पावशिष्टे तु तदा युगान्ते भरतर्षभ
   सहस्रान्ते नराः सर्वे परायशॊ ऽनृतवादिनः
 25 यज्ञप्रतिनिधिः पार्थ दानप्रतिनिधिस तथा
   वरतप्रति निधिश चैव तस्मिन काले परवर्तते
 26 बराह्मणाः शूद्र कर्माणस तथा शूद्रा धनार्जकाः
   कषत्रधर्मेण वाप्य अत्र वर्तयन्ति गते युगे
 27 निवृत्तयज्ञस्वाध्यायाः पिण्डॊदकविवर्जिताः
   बराह्मणाः सर्वभक्षाश च भविष्यन्ति कलौ युगे
 28 अजपा बराह्मणास तात शूद्रा जप परायणाः
   विपरीते तदा लॊके पूर्वरूपं कषयस्य तत
 29 बहवॊ मेच्छ राजानः पृथिव्यां मनुजाधिप
   मिथ्यानुशासिनः पापा मृषावादपरायणाः
 30 आन्ध्राः शकाः पुलिन्दाश च यवनाश च नराधिपाः
   काम्बॊजा और्णिकाः शूद्रास तथाभीरा नरॊत्तम
 31 न तदा बराह्मणः कश चित सवधर्मम उपजीवति
   कषत्रिया अपि वैश्याश च विकर्मस्था नराधिप
 32 अल्पायुषः सवल्प बला अल्पतेजः पराक्रमाः
   अल्पदेहाल्प साराश च तथा सत्याल्प भाषिणः
 33 बहु शून्या जनपदा मृगव्यालावृता दिशः
   युगान्ते समनुप्राप्ते वृथा च बरह्मचारिणः
   भॊगादिनस तथा शूद्रा बराह्मणाश चार्यवादिनः
 34 युगान्ते मनुजव्याघ्रभवन्ति बहु जन्तवः
   न तथा घराणयुक्ताश च सर्वगन्धा विशां पते
   रसाश च मनुजव्याघ्रन तथा सवादु यॊगिनः
 35 बहु परजा हरस्वदेहाः शीलाचार विवर्जिताः
   मुखे भगाः सत्रियॊ राजन भविष्यन्ति युगक्षये
 36 अट्टशूला जनपदाः शिव शूलाश चतुष्पथाः
   केशशूलाः सत्रियॊ राजन भविष्यन्ति युगक्षये
 37 अल्पक्षीरास तथा गावॊ भविष्यन्ति जनाधिप
   अल्पपुष्पफलाश चापि पादपा बहु वायसाः
 38 बरह्म वध्यावलॊप्तानां तथा मिथ्याभिशंसिनाम
   नृपाणां पृथिवीपाल परतिगृह्णन्ति वै दविजाः
 39 लॊभमॊहपरीताश च मिथ्या धर्मध्वजावृताः
   भिक्षार्थं पृथिवीपाल चञ्चूर्यन्ते दविजैर दिशः
 40 करभार भयात पुंसॊ गृहस्थाः परिमॊषकाः
   मुनिछद्माकृति छन्ना वाणिज्यम उपजीवते
 41 मिथ्या च नखरॊमाणि धारयन्ति नरास तदा
   अर्थलॊभान नरव्याघ्र वृथा च बरह्मचारिणः
 42 आश्रमेषु वृथाचाराः पानपा गुरुतल्पगाः
   ऐह लौकिकम ईहन्ते मांसशॊणितवर्धनम
 43 बहु पाषण्ड संकीर्णाः परान्न गुणवादिनः
   आश्रमा मनुजव्याघ्रन भवन्ति युगक्षये
 44 यथर्तु वर्षी भगवान न तथा पाकशासनः
   न तदा सर्वबीजानि सम्यग रॊहन्ति भारत
   अधर्मफलम अत्यर्थं तदा भवति चानघ
 45 तथा च पृथिवीपाल यॊ भवेद धर्मसंयुतः
   अल्पायुः स हि मन्तव्यॊ न हि धर्मॊ ऽसति कश चन
 46 भूयिष्ठं कूटमानैश च पण्यं विक्रीणते जनाः
   वणिजश च नरव्याघ्र बहु माया भवन्त्य उत
 47 धर्मिष्ठाः परिहीयन्ते पापीयान वर्धते जनः
   धर्मस्य बलहानिः सयाद अधर्मश च बली तथा
 48 अल्पायुषॊ दरिद्राश च धर्मिष्ठा मानवास तदा
   दीर्घायुषः समृद्धाश च विधर्माणॊ युगक्षये
 49 अधर्मिष्ठैर उपायैश च परजा वयवहरन्त्य उत
   संचयेनापि चाल्पेन भवन्त्य आढ्या मदान्विताः
 50 धनं विश्वासतॊ नयस्तं मिथॊ भूयिष्ठशॊ नराः
   हर्तुं वयवसिता राजन मायाचार समन्विताः
 51 पुरुषादानि सत्त्वानि पक्षिणॊ ऽथ मृगास तथा
   नगराणां विहारेषु चैत्येष्व अपि च शेरते
 52 सप्त वर्षाष्ट वर्षाश च सत्रियॊ गर्भधरा नृप
   दश दवादश वर्षाणां पुंसां पुत्रः परजायते
 53 भवन्ति षॊडशे वर्षे नराः पलितिनस तथा
   आयुः कषयॊ मनुष्याणां कषिप्रम एव परपद्यते
 54 कषीणे युगे महाराज तरुणा वृद्धशीलिनः
   तरुणानां च यच छीलं तद वृद्धेषु परजायते
 55 विपरीतास तदा नार्यॊ वञ्चयित्वा रहॊ पतीन
   वयुच्चरन्त्य अपि दुःशीला दासैः पशुभिर एव च
 56 तस्मिन युगसहस्रान्ते संप्राप्ते चायुषः कषये
   अनावृष्टिर महाराज जायते बहु वार्षिकी
 57 ततस तान्य अल्पसाराणि सत्त्वानि कषुधितानि च
   परलयं यान्ति भूयिष्ठं पृथिव्यां पृथिवीपते
 58 ततॊ दिनकरैर दीप्तैः सप्तभिर मनुजाधिप
   पीयते सलिलं सर्वं समुद्रेषु सरित्सु च
 59 यच च काष्ठं तृणं चापि शुष्कं चार्द्रं च भारत
   सर्वं तद भस्मसाद भूतं दृश्यते भरतर्षभः
 60 ततः संवर्तकॊ वह्निर वायुना सह भारत
   लॊकम आविशते पूर्वम आदित्यैर उपशॊषितम
 61 ततः स पृथिवीं भित्त्वा समाविश्य रसातलम
   देवदानव यक्षाणां भयं जनयते महत
 62 निर्दहन नागलॊकं च यच च किं चित कषिताव इह
   अधस्तात पृथिवीपाल सर्वं नाशयते कषणात
 63 ततॊ यॊजनविंशानां सहस्राणि शतानि च
   निर्दहत्य अशिवॊ वायुः स च संवर्तकॊ ऽनलः
 64 सदेवासुरगन्धर्वं सयक्षॊरग राक्षसम
   ततॊ दहति दीप्तः स सर्वम एव जगद विभुः
 65 ततॊ गजकुलप्रख्यास तडिन माला विभूषिताः
   उत्तिष्ठन्ति महामेघा नभस्य अद्भुतदर्शनाः
 66 के चिन नीलॊत्पलश्यामाः के चित कुमुदसंनिभाः
   के चित किञ्जल्कसंकाशाः के चित पीताः पयॊधराः
 67 के चिद धारिद्र संकाशाः काकाण्डक निभास तथा
   के चित कमलपत्राभाः केचिद धिङ्गुलक परभाः
 68 के चित पुरवराकाराः के चिद गजकुलॊपमाः
   के चिद अञ्जनसंकाशाः के चिन मकरसंस्थिताः
   विद्युन्माला पिनद्धाङ्गाः समुत्तिष्ठन्ति वै घनाः
 69 घॊररूपा महाराज घॊरस्वननिनादिताः
   ततॊ जलधराः सर्वे वयाप्नुवन्ति नभस्तलम
 70 तैर इयं पृथिवी सर्वा सपर्वतवनाकरा
   आपूर्यते महाराज सलिलौघपरिप्लुता
 71 ततस ते जलदा घॊरा राविणः पुरुषर्षभ
   सर्वतः पलावयन्त्य आशु चॊदिताः परमेष्ठिना
 72 वर्षमाणा महत तॊयं पूरयन्तॊ वसुंधराम
   सुघॊरम अशिवं रौद्रं नाशयन्ति च पावकम
 73 ततॊ दवादश वर्षाणि पयॊदास त उपप्लवे
   धाराभिः पूरयन्तॊ वै चॊद्यमाना महात्मना
 74 ततः समुद्रः सवां वेलाम अतिक्रामति भारत
   पर्वताश च विशीर्यन्ते मही चापि विशीर्यते
 75 सर्वतः सहसा भरान्तास ते पयॊदा नभस्तलम
   संवेष्टयित्वा नश्यन्ति वायुवेगपराहताः
 76 ततस तं मारुतं घॊरं सवयम्भूर मनुजाधिप
   आदि पद्मालयस्ल देवः पीत्वा सवपिति भारत
 77 तस्मिन्न एकार्णवे घॊरे नष्टे सथावरजङ्गमे
   नष्टे देवासुरगणे यक्षाराक्षस वर्जिते
 78 निर्मनुष्ये महीपाल निःश्वापद महीरुहे
   अनन्तरिक्षे लॊके ऽसमिन भरमाम्य एकॊ ऽहम आदृतः
 79 एकार्णवे जले घॊरे विचरन पार्थिवॊत्तम
   अपश्यन सर्वभूतानि वैक्लव्यम अगमं परम
 80 ततः सुदीर्घं गत्वा तु पलवमानॊ नराधिप
   शरान्तः कव चिन न शरणं लभाम्य अहम अतन्द्रितः
 81 ततः कदा चित पश्यामि तस्मिन सलिलसंप्लवे
   नयग्रॊधं सुमहान्तं वै विशालं पृथिवीपते
 82 शाखायां तस्य वृक्षस्य विस्तीर्णायां नराधिप
   पर्यङ्के पृथिवीपाल दिव्यास्तरण संस्तृते
 83 उपविष्टं महाराज पूर्णेन्दुसदृशाननम
   फुल्लपद्मविशालाक्षं बालं पश्यामि भारत
 84 ततॊ मे पृथिवीपाल विस्मयः सुमहान अभूत
   कथं तव अयं शिशुः शेते लॊके नाशम उपागते
 85 तपसा चिन्तयंश चापि तं शिशुं नॊपलक्षये
   भूतं भव्यं भविष्यच च जानन्न अपि नराधिप
 86 अतसी पुष्पवर्णाभः शरीवत्स कृतलक्षणः
   साक्षाल लक्ष्म्या इवावासः स तदा परतिभाति मे
 87 ततॊ माम अब्रवीद बालः स पद्मनिभ लॊचनः
   शरीवत्स धारी दयुतिमान वाक्यं शरुतिसुखावहम
 88 जानामि तवा परिश्रान्तं तात विश्रामकाङ्क्षिणम
   मार्कण्डेय इहास्स्व तवं यावद इच्छसि भार्गव
 89 अभ्यन्तरं शरीरं मे परविश्य मुनिसत्तम
   आस्स्व भॊ विहितॊ वासः परसादस ते कृतॊ मया
 90 ततॊ बालेन तेनैवम उक्तस्यासीत तदा मम
   निर्वेदॊ जीविते दीर्घे मनुष्यत्व च भारत
 91 ततॊ बालेन तेनास्यं सहसा विवृतं कृतम
   तस्याहम अवशॊ वक्त्रं दैवयॊगात परवेशितः
 92 ततः परविष्टस तत कुक्षिं सहसा मनुजाधिप
   सराष्ट्रनगराकीर्णां कृत्स्नां पश्यामि मेदिनीम
 93 गङ्गां शतद्रुं सीतां च यमुनाम अथ कौशिकीम
   चर्मण्वतीं वेत्रवतीं चन्द्रभागां सरस्वतीम
 94 सिन्धुं चैव विपाशां च नदीं गॊदावरीम अपि
   वस्वॊकसारां नलिनीं नर्मदां चैव भारत
 95 नदीं ताम्रां च वेण्णां च पुण्यतॊयां शुभावहाम
   सुवेणां कृष्णवेणां च इरामां च महानदीम
   शॊणं च पुरुषव्याघ्र विशल्यां कम्पुनाम अपि
 96 एताश चान्याश च नद्यॊ ऽहं पृथिव्यां या नरॊत्तम
   परिक्रामन परपश्यामि तस्य कुक्षौ महात्मनः
 97 ततः समुद्रं पश्यामि यादॊगणनिषेवितम
   रत्नाकरम अमित्रघ्न निधानं पयसॊ महत
 98 ततः पश्यामि गगनं चन्द्रसूर्यविराजितम
   जाज्वल्यमानं तेजॊभिः पावकार्क समप्रभैः
   पश्यामि च महीं राजन कानकैर उपशॊभिताम
 99 यजन्ते हि तदा राजन बराह्मणा बहुभिः सवैः
   कषत्रियाश च परवर्तन्ते सर्ववर्णानुरञ्जने
 100 वैश्याः कृषिं यथान्यायं कारयन्ति नराधिप
   शुश्रूषायां च निरता दविजानां वृषलास तथा
101 ततः परिपतन राजंस तस्य कुक्षौ महात्मनः
   हिमवन्तं च पश्यामि हेमकूटं च पर्वतम
102 निषधं चापि पश्यामि शवेतं च रजता चितम
   पश्यामि च महीपाल पर्वतं गन्धमादनम
103 मन्दरं मनुजव्याघ्रनीलं चापि महागिरिम
   पश्यामि च महाराज मेरुं कनकपर्वतम
104 महेन्द्रं चैव पश्यामि विन्ध्यं च गिरिम उत्तमम
   मलयं चापि पश्यामि पारियात्रं च पर्वतम
105 एते चान्ये च बहवॊ यावन्तः पृथिवीधराः
   तस्यॊदरे मया दृष्टाः सर्वरत्नविभूषिताः
106 सिंहान वयाघ्रान वराहांश च नागांश च मनुजाधिप
   पृथिव्यां यानि चान्यानि सत्त्वानि जगतीपते
   तानि सर्वाण्य अहं तत्र पश्यन पर्यचरं तदा
107 कुक्षौ तस्य नरव्याघ्र परविष्टः संचरन दिशः
   शक्रादींश चापि पश्यामि कृत्स्नान देवगणांस तथा
108 गन्धर्वाप्सरसॊ यक्षान ऋषींश चैव महीपते
   दैत्यदानव संघांश च ये चान्ये सुरशत्रवः
109 यच च किं चिन मया लॊके दृष्टं सथावरजङ्गमम
   तद अपश्यम अहं सर्वं तस्य कुक्षौ महात्मनः
   फलाहारः परविचरन कृत्स्नं जगद इदं तदा
110 अन्तः शरीरे तस्याहं वर्षाणाम अधिकं शतम
   न च पश्यामि तस्याहम अन्तं देहस्य कुत्र चित
111 सततं धावमानश च चिन्तयानॊ विशां पते
   आसादयामि नैतान्तं तस्य राजन महात्मनः
112 ततस तम एव शरणं गतॊ ऽसमि विधिवत तदा
   वरेण्यं वरदं देवं मनसा कर्मणैव च
113 ततॊ ऽहं सहसा राजन वायुवेगेन निःसृतः
   महात्मानॊ मुखात तस्य विवृतात पुरुषॊत्तम
114 ततस तस्यैव शाखायां नयग्रॊघस्य विशां पते
   आस्ते मनुजशार्दूल कृत्स्नम आदाय वै जगत
115 तेनैव बाल वेषेण शरीवत्स कृतलक्षणम
   आसीनं तं नरव्याघ्र पश्याम्य अमिततेजसम
116 ततॊ माम अब्रवीद वीर स बालः परहसन्न इव
   शरीवत्स धारी दयुतिमान पीतवासा महाद्युतिः
117 अपीदानीं शरीरे ऽसमिन मामके मुनिसत्तम
   उषितस तवं सुविश्रान्तॊ मार्कण्डेय बरवीहि मे
118 मुहूर्ताद अथ मे दृष्टिः परादुर्भूता पुनर नवा
   यया निर्मुक्तम आत्मानम अपश्यं लब्धचेतसम
119 तस्य ताम्रतलौ तात चरणौ सुप्रतिष्ठितौ
   सुजातौ मृदु रक्ताभिर अङ्गुलीभिर अलंकृतौ
120 परयतेन मया मूर्ध्ना गृहीत्वा हय अभिवन्दितौ
   दृष्ट्वापरिमितं तस्य परभावम अमितौजसः
121 विनयेनाञ्जलिं कृत्वा परयत्नेनॊपगम्य च
   दृष्टॊ मया स भूतात्मा देवः कमललॊचनः
122 तम अहं पराञ्जलिर भूत्वा नमस्कृत्येदम अब्रुवम
   जञातुम इच्छामि देव तवां मायां चेमां तवॊत्तमाम
123 आस्येनानुप्रविष्टॊ ऽहं शरीरं भगवंस तव
   दृष्टवान अखिलाँल लॊकान समस्ताज जठरे तव
124 तव देव शरीरस्था देवदानवराक्षसाः
   यक्षगन्धर्वनागाश च जगत सथावरजङ्गमम
125 तवत्प्रसादाच च मे देव समृतिर न परिहीयते
   दरुतम अन्तः शरीरे ते सततं परिधावतः
126 इच्छामि पुण्डरीकाक्ष जञातुं तवाहम अनिन्दित
   इह भूत्वा शिशुः साक्षात किं भवान अवतिष्ठते
   पीत्वा जगद इदं विश्वम एतद आख्यातुम अर्हसि
127 किमर्थं च जगत सर्वं शरीरस्थं तवानघ
   कियन्तं च तवया कालम इह सथेयम अरिंदम
128 एतद इच्छामि देवेश शरॊतुं बराह्मण काम्यया
   तवत्तः कमलपत्राक्ष विस्तरेण यथातथम
   महद धयेतद अचिन्त्यं च यद अहं दृष्टवान परभॊ
129 इत्य उक्तः स मया शरीमान देवदेवॊ महाद्युतिः
   सान्त्वयन माम इदं वाक्यम उवाच वदतां वरः
 1 [vai]
    tataḥ sa punar evātha mārkaṇḍeyaṃ yaśasvinam
    papraccha vinayopeto dharmarājo yudhiṣṭhiraḥ
 2 naike yugasahasrāntās tvayā dṛṣṭā mahāmune
    na cāpīha samaḥ kaś cid āyuṣā tava vidyate
    varjayitvā mahātmānaṃ brāhmaṇaṃ parameṣṭhinam
 3 anantarikṣe loke 'smin devadānava varjite
    tvam eva pralaye vipra brāhmaṇam upatiṣṭhasi
 4 pralaye cāpi nirvṛtte prabuddhe ca pitāmahe
    tvam eva sṛjyamānāni bhūtānīha prapaśyasi
 5 caturvidhāni viprarṣe yathāvat parameṣṭhinā
    vāyubhūtā diśaḥ kṛtvā vikṣipyāpas tatas tataḥ
 6 tvayā lokaguruḥ sākṣāt sarvalokapitāmahaḥ
    ārādhito dvijaśreṣṭha tatpareṇa samādhinā
 7 tasmāt sarvāntako mṛtyur jarā vā dehanāśinī
    na tvā viśati viprarṣe prasādāt parameṣṭhinaḥ
 8 yadā naiva ravir nāgnir na vāyur na ca candramaḥ
    naivāntarikṣaṃ naivorvī śeṣaṃ bhavati kiṃ cana
 9 tasminn ekārṇave loke naṣṭe sthāvarajaṅgame
    naṣṭe devāsuragaṇe samutsanna mahorage
 10 śayānam amitātmānaṃ padme padmaniketanam
   tvam ekaḥ sarvabhūteśaṃ brahmāṇam upatiṣṭhasi
 11 etat pratyakṣataḥ sarvaṃ pūrvavṛttaṃ dvijottama
   tasmād icchāmahe śrotuṃ sarvahetv ātmikāṃ kathām
 12 anubhūtaṃ hi bahuśas tvayaikena dvijottama
   na te 'sty aviditaṃ kiṃ cit sarvalokeṣu nityadā
 13 [mārk]
   hanta te kathayiṣyāmi namaskṛtvā svayambhuve
   puruṣāya purāṇāya śāśvatāyāvyayāya ca
 14 ya eṣa pṛthudīrghākṣaḥ pītavāsā janārdanaḥ
   eṣa kartā vikartā ca sarvabhāvana bhūtakṛt
 15 acintyaṃ mahad āścaryaṃ pavitram api cottamam
   anādi nidhanaṃ bhūtaṃ viśvam akṣayam avyayam
 16 eṣa kartā na kriyate kāraṇaṃ cāpi pauruṣe
   yo hy enaṃ puruṣaṃ vetti devā api na taṃ viduḥ
 17 sarvam āścaryam evaitan nirvṛttaṃ rājasattama
   ādito manujavyāghrakṛtsnasya jagataḥ kṣaye
 18 catvāry āhuḥ sahasrāṇi varṣāṇāṃ tat kṛtaṃ yugam
   tasya tāvac chatī saṃdhyā saṃdhyāṃśaś ca tataḥ param
 19 trīṇi varṣasahasrāṇi treyā yugam ihocyate
   tasya tāvac chatī saṃdhyā saṃdhyāṃśaś ca tataḥ param
 20 tathā varṣasahasre dve dvāparaṃ parimāṇataḥ
   tasyāpi dviśatī saṃdhyā saṃkhyāṃśaś ca tataḥ param
 21 sahasram ekaṃ varṣāṇāṃ tataḥ kaliyugaṃ smṛtam
   tasya varṣaśataṃ saṃdhyā saṃdhyāṃśaś ca tataḥ param
   saṃdhyāsaṃdhyāṃśayos tulyaṃ pramāṇam upadhāraya
 22 kṣīṇe kaliyuge caiva pravartati kṛtaṃ yugam
   eṣā dvādaśa sāhasrī yugākhyā parikīrtitā
 23 etat sahasraparyantam ahar brāhmam udāhṛtam
   viśvaṃ hi brahmabhavane sarvaśaḥ parivartate
   lokānāṃ manujavyāghrapralayaṃ taṃ vidur budhāḥ
 24 alpāvaśiṣṭe tu tadā yugānte bharatarṣabha
   sahasrānte narāḥ sarve prāyaśo 'nṛtavādinaḥ
 25 yajñapratinidhiḥ pārtha dānapratinidhis tathā
   vrataprati nidhiś caiva tasmin kāle pravartate
 26 brāhmaṇāḥ śūdra karmāṇas tathā śūdrā dhanārjakāḥ
   kṣatradharmeṇa vāpy atra vartayanti gate yuge
 27 nivṛttayajñasvādhyāyāḥ piṇḍodakavivarjitāḥ
   brāhmaṇāḥ sarvabhakṣāś ca bhaviṣyanti kalau yuge
 28 ajapā brāhmaṇās tāta śūdrā japa parāyaṇāḥ
   viparīte tadā loke pūrvarūpaṃ kṣayasya tat
 29 bahavo meccha rājānaḥ pṛthivyāṃ manujādhipa
   mithyānuśāsinaḥ pāpā mṛṣāvādaparāyaṇāḥ
 30 āndhrāḥ śakāḥ pulindāś ca yavanāś ca narādhipāḥ
   kāmbojā aurṇikāḥ śūdrās tathābhīrā narottama
 31 na tadā brāhmaṇaḥ kaś cit svadharmam upajīvati
   kṣatriyā api vaiśyāś ca vikarmasthā narādhipa
 32 alpāyuṣaḥ svalpa balā alpatejaḥ parākramāḥ
   alpadehālpa sārāś ca tathā satyālpa bhāṣiṇaḥ
 33 bahu śūnyā janapadā mṛgavyālāvṛtā diśaḥ
   yugānte samanuprāpte vṛthā ca brahmacāriṇaḥ
   bhogādinas tathā śūdrā brāhmaṇāś cāryavādinaḥ
 34 yugānte manujavyāghrabhavanti bahu jantavaḥ
   na tathā ghrāṇayuktāś ca sarvagandhā viśāṃ pate
   rasāś ca manujavyāghrana tathā svādu yoginaḥ
 35 bahu prajā hrasvadehāḥ śīlācāra vivarjitāḥ
   mukhe bhagāḥ striyo rājan bhaviṣyanti yugakṣaye
 36 aṭṭaśūlā janapadāḥ śiva śūlāś catuṣpathāḥ
   keśaśūlāḥ striyo rājan bhaviṣyanti yugakṣaye
 37 alpakṣīrās tathā gāvo bhaviṣyanti janādhipa
   alpapuṣpaphalāś cāpi pādapā bahu vāyasāḥ
 38 brahma vadhyāvaloptānāṃ tathā mithyābhiśaṃsinām
   nṛpāṇāṃ pṛthivīpāla pratigṛhṇanti vai dvijāḥ
 39 lobhamohaparītāś ca mithyā dharmadhvajāvṛtāḥ
   bhikṣārthaṃ pṛthivīpāla cañcūryante dvijair diśaḥ
 40 karabhāra bhayāt puṃso gṛhasthāḥ parimoṣakāḥ
   munichadmākṛti channā vāṇijyam upajīvate
 41 mithyā ca nakharomāṇi dhārayanti narās tadā
   arthalobhān naravyāghra vṛthā ca brahmacāriṇaḥ
 42 āśrameṣu vṛthācārāḥ pānapā gurutalpagāḥ
   aiha laukikam īhante māṃsaśoṇitavardhanam
 43 bahu pāṣaṇḍa saṃkīrṇāḥ parānna guṇavādinaḥ
   āśramā manujavyāghrana bhavanti yugakṣaye
 44 yathartu varṣī bhagavān na tathā pākaśāsanaḥ
   na tadā sarvabījāni samyag rohanti bhārata
   adharmaphalam atyarthaṃ tadā bhavati cānagha
 45 tathā ca pṛthivīpāla yo bhaved dharmasaṃyutaḥ
   alpāyuḥ sa hi mantavyo na hi dharmo 'sti kaś cana
 46 bhūyiṣṭhaṃ kūṭamānaiś ca paṇyaṃ vikrīṇate janāḥ
   vaṇijaś ca naravyāghra bahu māyā bhavanty uta
 47 dharmiṣṭhāḥ parihīyante pāpīyān vardhate janaḥ
   dharmasya balahāniḥ syād adharmaś ca balī tathā
 48 alpāyuṣo daridrāś ca dharmiṣṭhā mānavās tadā
   dīrghāyuṣaḥ samṛddhāś ca vidharmāṇo yugakṣaye
 49 adharmiṣṭhair upāyaiś ca prajā vyavaharanty uta
   saṃcayenāpi cālpena bhavanty āḍhyā madānvitāḥ
 50 dhanaṃ viśvāsato nyastaṃ mitho bhūyiṣṭhaśo narāḥ
   hartuṃ vyavasitā rājan māyācāra samanvitāḥ
 51 puruṣādāni sattvāni pakṣiṇo 'tha mṛgās tathā
   nagarāṇāṃ vihāreṣu caityeṣv api ca śerate
 52 sapta varṣāṣṭa varṣāś ca striyo garbhadharā nṛpa
   daśa dvādaśa varṣāṇāṃ puṃsāṃ putraḥ prajāyate
 53 bhavanti ṣoḍaśe varṣe narāḥ palitinas tathā
   āyuḥ kṣayo manuṣyāṇāṃ kṣipram eva prapadyate
 54 kṣīṇe yuge mahārāja taruṇā vṛddhaśīlinaḥ
   taruṇānāṃ ca yac chīlaṃ tad vṛddheṣu prajāyate
 55 viparītās tadā nāryo vañcayitvā raho patīn
   vyuccaranty api duḥśīlā dāsaiḥ paśubhir eva ca
 56 tasmin yugasahasrānte saṃprāpte cāyuṣaḥ kṣaye
   anāvṛṣṭir mahārāja jāyate bahu vārṣikī
 57 tatas tāny alpasārāṇi sattvāni kṣudhitāni ca
   pralayaṃ yānti bhūyiṣṭhaṃ pṛthivyāṃ pṛthivīpate
 58 tato dinakarair dīptaiḥ saptabhir manujādhipa
   pīyate salilaṃ sarvaṃ samudreṣu saritsu ca
 59 yac ca kāṣṭhaṃ tṛṇaṃ cāpi śuṣkaṃ cārdraṃ ca bhārata
   sarvaṃ tad bhasmasād bhūtaṃ dṛśyate bharatarṣabhaḥ
 60 tataḥ saṃvartako vahnir vāyunā saha bhārata
   lokam āviśate pūrvam ādityair upaśoṣitam
 61 tataḥ sa pṛthivīṃ bhittvā samāviśya rasātalam
   devadānava yakṣāṇāṃ bhayaṃ janayate mahat
 62 nirdahan nāgalokaṃ ca yac ca kiṃ cit kṣitāv iha
   adhastāt pṛthivīpāla sarvaṃ nāśayate kṣaṇāt
 63 tato yojanaviṃśānāṃ sahasrāṇi śatāni ca
   nirdahaty aśivo vāyuḥ sa ca saṃvartako 'nalaḥ
 64 sadevāsuragandharvaṃ sayakṣoraga rākṣasam
   tato dahati dīptaḥ sa sarvam eva jagad vibhuḥ
 65 tato gajakulaprakhyās taḍin mālā vibhūṣitāḥ
   uttiṣṭhanti mahāmeghā nabhasy adbhutadarśanāḥ
 66 ke cin nīlotpalaśyāmāḥ ke cit kumudasaṃnibhāḥ
   ke cit kiñjalkasaṃkāśāḥ ke cit pītāḥ payodharāḥ
 67 ke cid dhāridra saṃkāśāḥ kākāṇḍaka nibhās tathā
   ke cit kamalapatrābhāḥ kecid dhiṅgulaka prabhāḥ
 68 ke cit puravarākārāḥ ke cid gajakulopamāḥ
   ke cid añjanasaṃkāśāḥ ke cin makarasaṃsthitāḥ
   vidyunmālā pinaddhāṅgāḥ samuttiṣṭhanti vai ghanāḥ
 69 ghorarūpā mahārāja ghorasvananināditāḥ
   tato jaladharāḥ sarve vyāpnuvanti nabhastalam
 70 tair iyaṃ pṛthivī sarvā saparvatavanākarā
   āpūryate mahārāja salilaughapariplutā
 71 tatas te jaladā ghorā rāviṇaḥ puruṣarṣabha
   sarvataḥ plāvayanty āśu coditāḥ parameṣṭhinā
 72 varṣamāṇā mahat toyaṃ pūrayanto vasuṃdharām
   sughoram aśivaṃ raudraṃ nāśayanti ca pāvakam
 73 tato dvādaśa varṣāṇi payodās ta upaplave
   dhārābhiḥ pūrayanto vai codyamānā mahātmanā
 74 tataḥ samudraḥ svāṃ velām atikrāmati bhārata
   parvatāś ca viśīryante mahī cāpi viśīryate
 75 sarvataḥ sahasā bhrāntās te payodā nabhastalam
   saṃveṣṭayitvā naśyanti vāyuvegaparāhatāḥ
 76 tatas taṃ mārutaṃ ghoraṃ svayambhūr manujādhipa
   ādi padmālayasl devaḥ pītvā svapiti bhārata
 77 tasminn ekārṇave ghore naṣṭe sthāvarajaṅgame
   naṣṭe devāsuragaṇe yakṣārākṣasa varjite
 78 nirmanuṣye mahīpāla niḥśvāpada mahīruhe
   anantarikṣe loke 'smin bhramāmy eko 'ham ādṛtaḥ
 79 ekārṇave jale ghore vicaran pārthivottama
   apaśyan sarvabhūtāni vaiklavyam agamaṃ param
 80 tataḥ sudīrghaṃ gatvā tu plavamāno narādhipa
   śrāntaḥ kva cin na śaraṇaṃ labhāmy aham atandritaḥ
 81 tataḥ kadā cit paśyāmi tasmin salilasaṃplave
   nyagrodhaṃ sumahāntaṃ vai viśālaṃ pṛthivīpate
 82 śākhāyāṃ tasya vṛkṣasya vistīrṇāyāṃ narādhipa
   paryaṅke pṛthivīpāla divyāstaraṇa saṃstṛte
 83 upaviṣṭaṃ mahārāja pūrṇendusadṛśānanam
   phullapadmaviśālākṣaṃ bālaṃ paśyāmi bhārata
 84 tato me pṛthivīpāla vismayaḥ sumahān abhūt
   kathaṃ tv ayaṃ śiśuḥ śete loke nāśam upāgate
 85 tapasā cintayaṃś cāpi taṃ śiśuṃ nopalakṣaye
   bhūtaṃ bhavyaṃ bhaviṣyac ca jānann api narādhipa
 86 atasī puṣpavarṇābhaḥ śrīvatsa kṛtalakṣaṇaḥ
   sākṣāl lakṣmyā ivāvāsaḥ sa tadā pratibhāti me
 87 tato mām abravīd bālaḥ sa padmanibha locanaḥ
   śrīvatsa dhārī dyutimān vākyaṃ śrutisukhāvaham
 88 jānāmi tvā pariśrāntaṃ tāta viśrāmakāṅkṣiṇam
   mārkaṇḍeya ihāssva tvaṃ yāvad icchasi bhārgava
 89 abhyantaraṃ śarīraṃ me praviśya munisattama
   āssva bho vihito vāsaḥ prasādas te kṛto mayā
 90 tato bālena tenaivam uktasyāsīt tadā mama
   nirvedo jīvite dīrghe manuṣyatva ca bhārata
 91 tato bālena tenāsyaṃ sahasā vivṛtaṃ kṛtam
   tasyāham avaśo vaktraṃ daivayogāt praveśitaḥ
 92 tataḥ praviṣṭas tat kukṣiṃ sahasā manujādhipa
   sarāṣṭranagarākīrṇāṃ kṛtsnāṃ paśyāmi medinīm
 93 gaṅgāṃ śatadruṃ sītāṃ ca yamunām atha kauśikīm
   carmaṇvatīṃ vetravatīṃ candrabhāgāṃ sarasvatīm
 94 sindhuṃ caiva vipāśāṃ ca nadīṃ godāvarīm api
   vasvokasārāṃ nalinīṃ narmadāṃ caiva bhārata
 95 nadīṃ tāmrāṃ ca veṇṇāṃ ca puṇyatoyāṃ śubhāvahām
   suveṇāṃ kṛṣṇaveṇāṃ ca irāmāṃ ca mahānadīm
   śoṇaṃ ca puruṣavyāghra viśalyāṃ kampunām api
 96 etāś cānyāś ca nadyo 'haṃ pṛthivyāṃ yā narottama
   parikrāman prapaśyāmi tasya kukṣau mahātmanaḥ
 97 tataḥ samudraṃ paśyāmi yādogaṇaniṣevitam
   ratnākaram amitraghna nidhānaṃ payaso mahat
 98 tataḥ paśyāmi gaganaṃ candrasūryavirājitam
   jājvalyamānaṃ tejobhiḥ pāvakārka samaprabhaiḥ
   paśyāmi ca mahīṃ rājan kānakair upaśobhitām
 99 yajante hi tadā rājan brāhmaṇā bahubhiḥ savaiḥ
   kṣatriyāś ca pravartante sarvavarṇānurañjane
 100 vaiśyāḥ kṛṣiṃ yathānyāyaṃ kārayanti narādhipa
   śuśrūṣāyāṃ ca niratā dvijānāṃ vṛṣalās tathā
101 tataḥ paripatan rājaṃs tasya kukṣau mahātmanaḥ
   himavantaṃ ca paśyāmi hemakūṭaṃ ca parvatam
102 niṣadhaṃ cāpi paśyāmi śvetaṃ ca rajatā citam
   paśyāmi ca mahīpāla parvataṃ gandhamādanam
103 mandaraṃ manujavyāghranīlaṃ cāpi mahāgirim
   paśyāmi ca mahārāja meruṃ kanakaparvatam
104 mahendraṃ caiva paśyāmi vindhyaṃ ca girim uttamam
   malayaṃ cāpi paśyāmi pāriyātraṃ ca parvatam
105 ete cānye ca bahavo yāvantaḥ pṛthivīdharāḥ
   tasyodare mayā dṛṣṭāḥ sarvaratnavibhūṣitāḥ
106 siṃhān vyāghrān varāhāṃś ca nāgāṃś ca manujādhipa
   pṛthivyāṃ yāni cānyāni sattvāni jagatīpate
   tāni sarvāṇy ahaṃ tatra paśyan paryacaraṃ tadā
107 kukṣau tasya naravyāghra praviṣṭaḥ saṃcaran diśaḥ
   śakrādīṃś cāpi paśyāmi kṛtsnān devagaṇāṃs tathā
108 gandharvāpsaraso yakṣān ṛṣīṃś caiva mahīpate
   daityadānava saṃghāṃś ca ye cānye suraśatravaḥ
109 yac ca kiṃ cin mayā loke dṛṣṭaṃ sthāvarajaṅgamam
   tad apaśyam ahaṃ sarvaṃ tasya kukṣau mahātmanaḥ
   phalāhāraḥ pravicaran kṛtsnaṃ jagad idaṃ tadā
110 antaḥ śarīre tasyāhaṃ varṣāṇām adhikaṃ śatam
   na ca paśyāmi tasyāham antaṃ dehasya kutra cit
111 satataṃ dhāvamānaś ca cintayāno viśāṃ pate
   āsādayāmi naitāntaṃ tasya rājan mahātmanaḥ
112 tatas tam eva śaraṇaṃ gato 'smi vidhivat tadā
   vareṇyaṃ varadaṃ devaṃ manasā karmaṇaiva ca
113 tato 'haṃ sahasā rājan vāyuvegena niḥsṛtaḥ
   mahātmāno mukhāt tasya vivṛtāt puruṣottama
114 tatas tasyaiva śākhāyāṃ nyagroghasya viśāṃ pate
   āste manujaśārdūla kṛtsnam ādāya vai jagat
115 tenaiva bāla veṣeṇa śrīvatsa kṛtalakṣaṇam
   āsīnaṃ taṃ naravyāghra paśyāmy amitatejasam
116 tato mām abravīd vīra sa bālaḥ prahasann iva
   śrīvatsa dhārī dyutimān pītavāsā mahādyutiḥ
117 apīdānīṃ śarīre 'smin māmake munisattama
   uṣitas tvaṃ suviśrānto mārkaṇḍeya bravīhi me
118 muhūrtād atha me dṛṣṭiḥ prādurbhūtā punar navā
   yayā nirmuktam ātmānam apaśyaṃ labdhacetasam
119 tasya tāmratalau tāta caraṇau supratiṣṭhitau
   sujātau mṛdu raktābhir aṅgulībhir alaṃkṛtau
120 prayatena mayā mūrdhnā gṛhītvā hy abhivanditau
   dṛṣṭvāparimitaṃ tasya prabhāvam amitaujasaḥ
121 vinayenāñjaliṃ kṛtvā prayatnenopagamya ca
   dṛṣṭo mayā sa bhūtātmā devaḥ kamalalocanaḥ
122 tam ahaṃ prāñjalir bhūtvā namaskṛtyedam abruvam
   jñātum icchāmi deva tvāṃ māyāṃ cemāṃ tavottamām
123 āsyenānupraviṣṭo 'haṃ śarīraṃ bhagavaṃs tava
   dṛṣṭavān akhilāṁl lokān samastāj jaṭhare tava
124 tava deva śarīrasthā devadānavarākṣasāḥ
   yakṣagandharvanāgāś ca jagat sthāvarajaṅgamam
125 tvatprasādāc ca me deva smṛtir na parihīyate
   drutam antaḥ śarīre te satataṃ paridhāvataḥ
126 icchāmi puṇḍarīkākṣa jñātuṃ tvāham anindita
   iha bhūtvā śiśuḥ sākṣāt kiṃ bhavān avatiṣṭhate
   pītvā jagad idaṃ viśvam etad ākhyātum arhasi
127 kimarthaṃ ca jagat sarvaṃ śarīrasthaṃ tavānagha
   kiyantaṃ ca tvayā kālam iha stheyam ariṃdama
128 etad icchāmi deveśa śrotuṃ brāhmaṇa kāmyayā
   tvattaḥ kamalapatrākṣa vistareṇa yathātatham
   mahad dhyetad acintyaṃ ca yad ahaṃ dṛṣṭavān prabho
129 ity uktaḥ sa mayā śrīmān devadevo mahādyutiḥ
   sāntvayan mām idaṃ vākyam uvāca vadatāṃ varaḥ


Next: Chapter 187