Hinduism  Mahabharata  Index  Book 3 Index  Previous  Next 

Book 3 in English

The Mahabharata in Sanskrit

Book 3
Chapter 198

 1 [मार्क]
    चिन्तयित्वा तद आश्चर्यं सत्रिया परॊक्तम अशेषतः
    विनिन्दन स दविजॊ ऽऽतमानम आगः कृत इवाबभौ
 2 चिन्तयानः स धर्मस्य सूक्ष्मां गतिम अथाब्रवीत
    शरद्दधानेन भाव्यं वै गच्छामि मिथिलाम अहम
 3 कृतात्मा धर्मवित तस्यां वयाधॊ निवसते किल
    तं गच्छाम्य अहम अद्यैव धर्मं परष्टुं तपॊधनम
 4 इति संचिन्त्य मनसा शरद्दधानः सत्रिया वचः
    बलाका परत्ययेनासौ धर्म्यैश च वचनैः शुभैः
    संप्रतस्थे स मिथिलां कौतूहलसमन्वितः
 5 अतिक्रामन्न अरण्यानि गरामांश च नगराणि च
    ततॊ जगाम मिथिलां जनकेन सुरक्षिताम
 6 धर्मसेतु समाकीर्णां यज्ञॊत्सव वतीं शुभाम
    गॊपुराट्टालकवतीं गृहप्राकारशॊभिताम
 7 परविश्य स पुरीं रम्यां विमानैर बहुभिर वृताम
    पण्यैश च बहुभिर युक्तां सुविभक्तमहापथाम
 8 अश्वै रथैस तथा नागैर यानैश च बहुभिर वृताम
    हृष्टपुष्ट जनाकीर्णां नित्यॊत्सव समाकुलाम
 9 सॊ ऽपश्यद बहु वृत्तान्तां बराह्मणः समतिक्रमन
    धर्मव्याधम अपृच्छच च स चास्य कथितॊ दविजैः
 10 अपश्यत तत्र गत्वा तं सूना मध्ये वयवस्थितम
   मार्गमाहिष मांसानि विक्रीणन्तं तपस्विनम
   आकुलत्वात तु करेतॄणाम एकान्ते संस्थितॊ दविजः
 11 स तु जञात्वा दविजं पराप्तं सहसा संभ्रमॊत्थितः
   आजगाम यतॊ विप्रः सथित एकान्त आसने
 12 [वयाध]
   अभिवादये तवा भगवन सवागतं ते दविजॊत्तम
   अहं वयाधस तु भद्रं ते किं करॊमि परशाधि माम
 13 एकपत्न्या यद उक्तॊ ऽसि गच्छ तवं मिथिलाम इति
   जानाम्य एतद अहं सर्वं यदर्थं तवम इहागतः
 14 [मार्क]
   शरुत्वा तु तस्य तद वाक्यं स विप्रॊ भृशहर्षितः
   दवितीयम इदम आश्चर्यम इत्य अचिन्तयत दविजः
 15 अदेशस्थं हि ते सथानम इति वयाधॊ ऽबरवीद दविजम
   गृहं गच्छाव भगवन यदि रॊचयसे ऽनघ
 16 बाढम इत्य एव संहृष्टॊ विप्रॊ वचनम अब्रवीत
   अग्रतस तु दविजं कृत्वा स जगाम गरहान परति
 17 परविश्य च गृहं रम्यम आसनेनाभिपूजितः
   पाद्यम आचमनीयं च परतिगृह्य दविजॊत्तमः
 18 ततः सुखॊपविष्टस तं वयाधं वचनम अब्रवीत
   कर्मैतद वै न सदृशं भवतः परतिभाति मे
   अनुतप्ये भृशं तात तव घॊरेण कर्मणा
 19 [वयाध]
   कुलॊचितम इदं कर्म पितृपैतामहं मम
   वर्तमानस्य मे धर्मे सवे मन्युं मा कृथा दविज
 20 धात्रा तु विहितं पूर्वं कर्म सवं पालयाम्य अहम
   परयत्नाच च गुरू वृद्धौ शुश्रूषे ऽहं दविजॊत्तम
 21 सत्यं वदे नाभ्यसूये यथाशक्ति ददामि च
   देवतातिथिभृत्यानाम अवशिष्टेन वर्तये
 22 न कुत्सयाम्य अहं किं चिन न गर्हे बलवत्तरम
   कृतम अन्वेति कर्तारं पुरा कर्म दविजॊत्तम
 23 कृषिगॊरक्ष्य वाणिज्यम इह लॊकस्य जीवनम
   दण्डनीतिस तरयी विद्या तेन लॊका भवन्त्य उत
 24 कर्म शूद्रे कृषिर वैश्ये संग्रामः कषत्रिये समृतः
   बरह्मचर्यं तपॊ मन्त्राः सत्यं च बराह्मणे सदा
 25 राजा परशास्ति धर्मेण सवकर्म निरताः परजाः
   विकर्माणश च ये के चित तान युनक्ति सवकर्मसु
 26 भेतव्यं हि सदा राज्ञां परजानाम अधिपा हि ते
   मारयन्ति विकर्मस्थं लुब्धा मृगम इवेषुभिः
 27 जनकस्येह विप्रर्षे विकर्मस्थॊ न विद्यते
   सवकर्म निरता वर्णाश चत्वारापि दविजॊत्तम
 28 स एष जनकॊ राजा दुर्वृत्तम अपि चेत सुतम
   दण्ड्यं दण्डे निक्षिपति तथा न गलाति धार्मिकम
 29 सुयुक्तचारॊ नृपतिः सर्वं धर्मेण पश्यति
   शरीश च राज्यं च दण्डश च कषत्रियाणां दविजॊत्तम
 30 राजानॊ हि सवधर्मेण शरियम इच्छन्ति भूयसीम
   सर्वेषाम एव वर्णानां तराता राजा भवत्य उत
 31 परेण हि हतान बरह्मन वराहमहिषान अहम
   न सवयं हन्मि विप्रर्षे विक्रीणामि सदा तव अहम
 32 न भक्षयामि मांसानि ऋतुगामी तथा हय अहम
   सदॊपवासी च तथा नक्तभॊजी तथा दविज
 33 अशीलश चापि पुरुषॊ भूत्वा भवति शीलवान
   पराणि हिंसा रतश चापि भवते धार्मिकः पुनः
 34 वयभिचारान नरेन्द्राणां धर्मः संकीर्यते महान
   अधर्मॊ वर्धते चापि संकीर्यन्ते तथा परजाः
 35 उरुण्डा वामनाः कुब्जाः सथूलशीर्षास तथैव च
   कलीबाश चान्धाश च जायन्ते बधिरा लम्बचूचुकाः
   पार्थिवानाम अधर्मत्वात परजानाम अभवः सदा
 36 स एष राजा जनकः सर्वं धर्मेण पश्यति
   अनुगृह्णन परजाः सर्वाः सवधर्मनिरताः सदा
 37 ये चैव मां परशंसन्ति ये च निन्दन्ति मानवाः
   सर्वान सुपरिणीतेन कर्मणा तॊषयाम्य अहम
 38 ये जीवन्ति सवधर्मेण संभुञ्जन्ते च पार्थिवाः
   न किं चिद उपजीवन्ति दक्षा उत्थान शीलिनः
 39 शक्त्यान्न दानं सततं तितिक्षा धर्मनित्यता
   यथार्हं परतिपूजा च सर्वभूतेषु वै दया
   तयागान नान्यत्र मर्त्यानां गुणास तिष्ठन्ति पूरुषे
 40 मृषावादं परिहरेत कुर्यात परियम अयाचितः
   न च कामान न संरम्भान न दवेषाद धर्मम उत्सृजेत
 41 परिये नातिभृशं हृष्येद अप्रिये न च संज्वरेत
   न मुह्येद अर्थकृच्छ्रेषु न च धर्मं परित्यजेत
 42 कर्म चेत किं चिद अन्यत सयाद इतरन न समाचरेत
   यत कल्याणम अभिध्यायेत तत्रात्मानं नियॊजयेत
 43 न पापं परति पापः सयात साधुर एव सदा भवेत
   आत्मनैव हतः पापॊ यः पापं कर्तुम इच्छति
 44 कर्म चैतद असाधूनां वृजिनानाम असाधुवत
   न धर्मॊ ऽसतीति मन्वानाः शुचीन अवहसन्ति ये
   अश्रद्दधाना धर्मस्य ते नश्यन्ति न संशयः
 45 महादृतिर इवाध्मातः पापॊ भवति नित्यदा
   मूढानाम अवलिप्तानाम असारं भाषितं भवेत
   दर्शयत्य अन्तरात्मानं दिवा रूपम इवांशुमान
 46 न लॊके राजते मूर्खः केवलात्म परशंसया
   अपि चेह मृजा हीनः कृतविद्यः परकाशते
 47 अब्रुवन कस्य चिन निन्दाम आत्मपूजाम अवर्णयन
   न कश चिद गुणसंपन्नः परकाशॊ भुवि दृश्यते
 48 विकर्मणा तप्यमानः पापाद विपरिमुच्यते
   नैतत कुर्यां पुनर इति दवितीयात परिमुच्यते
 49 कर्मणा येन तेनेह पापाद दविज वरॊत्तम
   एवं शरुतिर इयं बरह्मन धर्मेषु परिदृश्यते
 50 पापान्य अबुद्ध्वेह पुरा कृतानि; पराग धर्मशीलॊ विनिहन्ति पश्चात
   धर्मॊ बरह्मन नुदते पूरुषाणां; यत कुर्वते पापम इह परमादात
 51 पापं कृत्वा हि मन्येत नाहम अस्मीति पूरुषः
   चिकीर्षेद एव कल्याणं शरद्दधानॊ ऽनसूयकः
 52 वसनस्येव छिद्राणि साधूनां विवृणॊति यः
   पापं चेत पुरुषः कृत्वा कल्याणम अभिपद्यते
   मुच्यते सर्वपापेभ्यॊ महाभ्रैर इव चन्द्रमाः
 53 यथादित्यः समुद्यन वै तमॊ सर्वं वयपॊहति
   एवं कल्याणम आतिष्ठन सर्वपापैः परमुच्यते
 54 पापानां विद्ध्य अधिष्ठानं लॊभम एव दविजॊत्तम
   लुब्धाः पापं वयवस्यन्ति नरा नातिबहु शरुताः
   अधर्मा धर्मरूपेण तृणैः कूपा इवावृताः
 55 तेषां दमः पवित्राणि परलापा धर्मसंश्रिताः
   सर्वं हि विद्यते तेषु शिष्टाचारः सुदुर्लभः
 56 [मार्क]
   स तु विप्रॊ महाप्राज्ञॊ धर्मव्याधम अपृच्छत
   शिष्टाचारं कथम अहं विद्याम इति नरॊत्तम
   एतन महामते वयाध परब्रवीहि यथातथम
 57 [वयाध]
   यज्ञॊ दानं तपॊ वेदाः सत्यं च दविजसत्तम
   पञ्चैतानि पवित्राणि शिष्टाचारेषु नित्यदा
 58 कामक्रॊधौ वशे कृत्वा दम्भं लॊभम अनार्जवम
   धर्म इत्य एव संतुष्टास ते शिष्टाः शिष्टसंमताः
 59 न तेषां विद्यते ऽवृत्तं यज्ञस्वाध्यायशीलिनाम
   आचार पालनं चैव दवितीयं शिष्टलक्षणम
 60 गुरुशुश्रूषणं सत्यम अक्रॊधॊ दानम एव च
   एतच चतुष्टयं बरह्मञ शिष्टाचारेषु नित्यदा
 61 शिष्टाचारे मनॊ कृत्वा परतिष्ठाप्य च सर्वशः
   याम अयं लभते तुष्टिं सा न शक्या हय अतॊ ऽनयथा
 62 वेदस्यॊपनिषत सत्यं सत्यस्यॊपनिषद दमः
   दमस्यॊपनिषत तयागः शिष्टाचारेषु नित्यदा
 63 ये तु धर्मम असूयन्ते बुद्धिमॊहान्विता नराः
   अपथा गच्छतां तेषाम अनुयातापि पीड्यते
 64 ये तु शिष्टाः सुनियताः शरुतित्यागपरायणाः
   धर्म्यं पन्थानम आरूढाः सत्यधर्मपरायणाः
 65 नियच्छन्ति परां बुद्धिं शिष्टाचारान्विता नराः
   उपाध्याय मते युक्ताः सथित्या धर्मार्थदर्शिनः
 66 नास्तिकान भिन्नमर्यादान करूरान पापमतौ सथितान
   तयज ताञ जञानम आश्रित्य धार्मिकान उपसेव्य च
 67 काललॊभ गरहाकीर्णां पञ्चेन्द्रिय जलां नदीम
   नावं धृतिमयीं कृत्वा जन्म दुर्गाणि संतर
 68 करमेण संचितॊ धर्मॊ बुद्धियॊगमयॊ महान
   शिष्टाचारे भवेत साधू रागः शुक्लेव वाससि
 69 अहिंसा सत्यवचनं सर्वभूतहितं परम
   अहिंसा परमॊ धर्मः स च सत्ये परतिष्ठितः
   सत्ये कृत्वा परतिष्ठां तु परवर्तन्ते परवृत्तयः
 70 सत्यम एव गरीयस तु शिष्टाचार निषेवितम
   आचारश च सतां धर्मः सन्तश चाचार लक्षणः
 71 यॊ यथा परकृतिर जन्तुः सवां सवां परकृतिम अश्नुते
   पापात्मा करॊधकामादीन दॊषान आप्नॊत्य अनात्मवान
 72 आरम्भॊ नयाययुक्तॊ यः स हि धर्म इति समृतः
   अनाचारस तव अधर्मेति एतच छिष्टानुशासनम
 73 अक्रुध्यन्तॊ ऽनसूयन्तॊ निरहंकार मत्सराः
   ऋजवः शम संपन्नाः शिष्टाचारा भवन्ति ते
 74 तरैविद्य वृद्धाः शुचयश वृत्तवन्तॊ मनस्विनः
   गुरुशुश्रूषवॊ दान्ताः शिष्टाचारा भवन्त्य उत
 75 तेषाम अदीनसत्त्वानां दुष्कराचार कर्मणाम
   सवैः कर्मभिः सत्कृतानां घॊरत्वं संप्रणश्यति
 76 तं सद आचारम आश्चर्यं पुराणं शाश्वतं धरुवम
   धर्मं धर्मेण पश्यन्तः सवर्गं यान्ति मनीषिणः
 77 आस्तिका मानहीनाश च दविजातिजनपूजकाः
   शरुतवृत्तॊपसंपन्नास ते सन्तः सवर्गगामिनः
 78 वेदॊक्तः परमॊ धर्मॊ धर्मशास्त्रेषु चापरः
   शिष्टाचीर्णश च शिष्टानां तरिविधं धर्मलक्षणम
 79 पारणं चापि विद्यानां तीर्थानाम अवगाहनम
   कषमा सत्यार्जवं शौचं शिष्टाचार निदर्शनम
 80 सर्वभूतदयावन्तॊ अहिंसा निरताः सदा
   परुषं न परभाषन्ते सदा सन्तॊ दविज परियाः
 81 शुभानाम अशुभानां च कर्मणां फलसंचये
   विपाकम अभिजानन्ति ते शिष्टाः शिष्टसंमताः
 82 नयायॊपेता गुणॊपेताः सर्वलॊकहितैषिणः
   सन्तः सवर्गजितः शुक्लाः संनिविष्टाश च सत्पथे
 83 दातारः संविभक्तारॊ दीनानुग्रह कारिणः
   सर्वभूतदयावन्तस ते शिष्टाः शिष्टसंमताः
 84 सर्वपूज्याः शरुतधनास तथैव च तपस्विनः
   दाननित्याः सुखाँल लॊकान आप्नुवन्तीह च शरियम
 85 पीडया च कलत्रस्य भृत्यानां च समाहिताः
   अतिशक्त्या परयच्छन्ति सन्तः सद्भिः समागताः
 86 लॊकयात्रां च पश्यन्तॊ धर्मम आत्महितानि च
   एवं सन्तॊ वर्तमाना एधन्ते शाश्वतीः समाः
 87 अहिंसा सत्यवचनम आनृशंस्यम अथार्जवम
   अद्रॊहॊ नातिमानश च हरीस तितिक्षा दमः शमः
 88 धीमन्तॊ धृतिमन्तश च भूतानाम अनुकम्पकाः
   अकाम दवेषसंयुक्तास ते सन्तॊ लॊकसत्कृताः
 89 तरीण्य एव तु पदान्य आहुः सतां वृत्तम अनुत्तमम
   न दरुह्येच चैव दद्याच च सत्यं चैव सदा वदेत
 90 सर्वत्र च दयावन्तः सन्तः करुणवेदिनः
   गच्छन्तीह सुसंतुष्टा धर्म्यं पन्थानम उत्तमम
   शिष्टाचारा महात्मानॊ येषां धर्मः सुनिश्चितः
 91 अनसूया कषमा शान्तिः संतॊषः परियवादिता
   कामक्रॊधपरित्यागः शिष्टाचार निषेवणम
 92 कर्मणा शरुतसंपन्नं सतां मार्गम अनुत्तमम
   शिष्टाचारं निषेवन्ते नित्यं धर्मेष्व अतन्द्रिताः
 93 परज्ञा परासादम आरुह्य मुह्यतॊ महतॊ जनान
   परेक्षन्तॊ लॊकवृत्तानि विविधानि दविजॊत्तम
   अतिपुण्यानि पापानि तानि दविज वरॊत्तम
 94 एतत ते सर्वम आख्यातं यथा परज्ञं यथा शरुतम
   शिष्टाचार गुणान बरह्मन पुरस्कृत्य दविजर्षभ
 1 [mārk]
    cintayitvā tad āścaryaṃ striyā proktam aśeṣataḥ
    vinindan sa dvijo ''tmānam āgaḥ kṛta ivābabhau
 2 cintayānaḥ sa dharmasya sūkṣmāṃ gatim athābravīt
    śraddadhānena bhāvyaṃ vai gacchāmi mithilām aham
 3 kṛtātmā dharmavit tasyāṃ vyādho nivasate kila
    taṃ gacchāmy aham adyaiva dharmaṃ praṣṭuṃ tapodhanam
 4 iti saṃcintya manasā śraddadhānaḥ striyā vacaḥ
    balākā pratyayenāsau dharmyaiś ca vacanaiḥ śubhaiḥ
    saṃpratasthe sa mithilāṃ kautūhalasamanvitaḥ
 5 atikrāmann araṇyāni grāmāṃś ca nagarāṇi ca
    tato jagāma mithilāṃ janakena surakṣitām
 6 dharmasetu samākīrṇāṃ yajñotsava vatīṃ śubhām
    gopurāṭṭālakavatīṃ gṛhaprākāraśobhitām
 7 praviśya sa purīṃ ramyāṃ vimānair bahubhir vṛtām
    paṇyaiś ca bahubhir yuktāṃ suvibhaktamahāpathām
 8 aśvai rathais tathā nāgair yānaiś ca bahubhir vṛtām
    hṛṣṭapuṣṭa janākīrṇāṃ nityotsava samākulām
 9 so 'paśyad bahu vṛttāntāṃ brāhmaṇaḥ samatikraman
    dharmavyādham apṛcchac ca sa cāsya kathito dvijaiḥ
 10 apaśyat tatra gatvā taṃ sūnā madhye vyavasthitam
   mārgamāhiṣa māṃsāni vikrīṇantaṃ tapasvinam
   ākulatvāt tu kretṝṇām ekānte saṃsthito dvijaḥ
 11 sa tu jñātvā dvijaṃ prāptaṃ sahasā saṃbhramotthitaḥ
   ājagāma yato vipraḥ sthita ekānta āsane
 12 [vyādha]
   abhivādaye tvā bhagavan svāgataṃ te dvijottama
   ahaṃ vyādhas tu bhadraṃ te kiṃ karomi praśādhi mām
 13 ekapatnyā yad ukto 'si gaccha tvaṃ mithilām iti
   jānāmy etad ahaṃ sarvaṃ yadarthaṃ tvam ihāgataḥ
 14 [mārk]
   śrutvā tu tasya tad vākyaṃ sa vipro bhṛśaharṣitaḥ
   dvitīyam idam āścaryam ity acintayata dvijaḥ
 15 adeśasthaṃ hi te sthānam iti vyādho 'bravīd dvijam
   gṛhaṃ gacchāva bhagavan yadi rocayase 'nagha
 16 bāḍham ity eva saṃhṛṣṭo vipro vacanam abravīt
   agratas tu dvijaṃ kṛtvā sa jagāma grahān prati
 17 praviśya ca gṛhaṃ ramyam āsanenābhipūjitaḥ
   pādyam ācamanīyaṃ ca pratigṛhya dvijottamaḥ
 18 tataḥ sukhopaviṣṭas taṃ vyādhaṃ vacanam abravīt
   karmaitad vai na sadṛśaṃ bhavataḥ pratibhāti me
   anutapye bhṛśaṃ tāta tava ghoreṇa karmaṇā
 19 [vyādha]
   kulocitam idaṃ karma pitṛpaitāmahaṃ mama
   vartamānasya me dharme sve manyuṃ mā kṛthā dvija
 20 dhātrā tu vihitaṃ pūrvaṃ karma svaṃ pālayāmy aham
   prayatnāc ca gurū vṛddhau śuśrūṣe 'haṃ dvijottama
 21 satyaṃ vade nābhyasūye yathāśakti dadāmi ca
   devatātithibhṛtyānām avaśiṣṭena vartaye
 22 na kutsayāmy ahaṃ kiṃ cin na garhe balavattaram
   kṛtam anveti kartāraṃ purā karma dvijottama
 23 kṛṣigorakṣya vāṇijyam iha lokasya jīvanam
   daṇḍanītis trayī vidyā tena lokā bhavanty uta
 24 karma śūdre kṛṣir vaiśye saṃgrāmaḥ kṣatriye smṛtaḥ
   brahmacaryaṃ tapo mantrāḥ satyaṃ ca brāhmaṇe sadā
 25 rājā praśāsti dharmeṇa svakarma niratāḥ prajāḥ
   vikarmāṇaś ca ye ke cit tān yunakti svakarmasu
 26 bhetavyaṃ hi sadā rājñāṃ prajānām adhipā hi te
   mārayanti vikarmasthaṃ lubdhā mṛgam iveṣubhiḥ
 27 janakasyeha viprarṣe vikarmastho na vidyate
   svakarma niratā varṇāś catvārāpi dvijottama
 28 sa eṣa janako rājā durvṛttam api cet sutam
   daṇḍyaṃ daṇḍe nikṣipati tathā na glāti dhārmikam
 29 suyuktacāro nṛpatiḥ sarvaṃ dharmeṇa paśyati
   śrīś ca rājyaṃ ca daṇḍaś ca kṣatriyāṇāṃ dvijottama
 30 rājāno hi svadharmeṇa śriyam icchanti bhūyasīm
   sarveṣām eva varṇānāṃ trātā rājā bhavaty uta
 31 pareṇa hi hatān brahman varāhamahiṣān aham
   na svayaṃ hanmi viprarṣe vikrīṇāmi sadā tv aham
 32 na bhakṣayāmi māṃsāni ṛtugāmī tathā hy aham
   sadopavāsī ca tathā naktabhojī tathā dvija
 33 aśīlaś cāpi puruṣo bhūtvā bhavati śīlavān
   prāṇi hiṃsā rataś cāpi bhavate dhārmikaḥ punaḥ
 34 vyabhicārān narendrāṇāṃ dharmaḥ saṃkīryate mahān
   adharmo vardhate cāpi saṃkīryante tathā prajāḥ
 35 uruṇḍā vāmanāḥ kubjāḥ sthūlaśīrṣās tathaiva ca
   klībāś cāndhāś ca jāyante badhirā lambacūcukāḥ
   pārthivānām adharmatvāt prajānām abhavaḥ sadā
 36 sa eṣa rājā janakaḥ sarvaṃ dharmeṇa paśyati
   anugṛhṇan prajāḥ sarvāḥ svadharmaniratāḥ sadā
 37 ye caiva māṃ praśaṃsanti ye ca nindanti mānavāḥ
   sarvān supariṇītena karmaṇā toṣayāmy aham
 38 ye jīvanti svadharmeṇa saṃbhuñjante ca pārthivāḥ
   na kiṃ cid upajīvanti dakṣā utthāna śīlinaḥ
 39 śaktyānna dānaṃ satataṃ titikṣā dharmanityatā
   yathārhaṃ pratipūjā ca sarvabhūteṣu vai dayā
   tyāgān nānyatra martyānāṃ guṇās tiṣṭhanti pūruṣe
 40 mṛṣāvādaṃ pariharet kuryāt priyam ayācitaḥ
   na ca kāmān na saṃrambhān na dveṣād dharmam utsṛjet
 41 priye nātibhṛśaṃ hṛṣyed apriye na ca saṃjvaret
   na muhyed arthakṛcchreṣu na ca dharmaṃ parityajet
 42 karma cet kiṃ cid anyat syād itaran na samācaret
   yat kalyāṇam abhidhyāyet tatrātmānaṃ niyojayet
 43 na pāpaṃ prati pāpaḥ syāt sādhur eva sadā bhavet
   ātmanaiva hataḥ pāpo yaḥ pāpaṃ kartum icchati
 44 karma caitad asādhūnāṃ vṛjinānām asādhuvat
   na dharmo 'stīti manvānāḥ śucīn avahasanti ye
   aśraddadhānā dharmasya te naśyanti na saṃśayaḥ
 45 mahādṛtir ivādhmātaḥ pāpo bhavati nityadā
   mūḍhānām avaliptānām asāraṃ bhāṣitaṃ bhavet
   darśayaty antarātmānaṃ divā rūpam ivāṃśumān
 46 na loke rājate mūrkhaḥ kevalātma praśaṃsayā
   api ceha mṛjā hīnaḥ kṛtavidyaḥ prakāśate
 47 abruvan kasya cin nindām ātmapūjām avarṇayan
   na kaś cid guṇasaṃpannaḥ prakāśo bhuvi dṛśyate
 48 vikarmaṇā tapyamānaḥ pāpād viparimucyate
   naitat kuryāṃ punar iti dvitīyāt parimucyate
 49 karmaṇā yena teneha pāpād dvija varottama
   evaṃ śrutir iyaṃ brahman dharmeṣu paridṛśyate
 50 pāpāny abuddhveha purā kṛtāni; prāg dharmaśīlo vinihanti paścāt
   dharmo brahman nudate pūruṣāṇāṃ; yat kurvate pāpam iha pramādāt
 51 pāpaṃ kṛtvā hi manyeta nāham asmīti pūruṣaḥ
   cikīrṣed eva kalyāṇaṃ śraddadhāno 'nasūyakaḥ
 52 vasanasyeva chidrāṇi sādhūnāṃ vivṛṇoti yaḥ
   pāpaṃ cet puruṣaḥ kṛtvā kalyāṇam abhipadyate
   mucyate sarvapāpebhyo mahābhrair iva candramāḥ
 53 yathādityaḥ samudyan vai tamo sarvaṃ vyapohati
   evaṃ kalyāṇam ātiṣṭhan sarvapāpaiḥ pramucyate
 54 pāpānāṃ viddhy adhiṣṭhānaṃ lobham eva dvijottama
   lubdhāḥ pāpaṃ vyavasyanti narā nātibahu śrutāḥ
   adharmā dharmarūpeṇa tṛṇaiḥ kūpā ivāvṛtāḥ
 55 teṣāṃ damaḥ pavitrāṇi pralāpā dharmasaṃśritāḥ
   sarvaṃ hi vidyate teṣu śiṣṭācāraḥ sudurlabhaḥ
 56 [mārk]
   sa tu vipro mahāprājño dharmavyādham apṛcchata
   śiṣṭācāraṃ katham ahaṃ vidyām iti narottama
   etan mahāmate vyādha prabravīhi yathātatham
 57 [vyādha]
   yajño dānaṃ tapo vedāḥ satyaṃ ca dvijasattama
   pañcaitāni pavitrāṇi śiṣṭācāreṣu nityadā
 58 kāmakrodhau vaśe kṛtvā dambhaṃ lobham anārjavam
   dharma ity eva saṃtuṣṭās te śiṣṭāḥ śiṣṭasaṃmatāḥ
 59 na teṣāṃ vidyate 'vṛttaṃ yajñasvādhyāyaśīlinām
   ācāra pālanaṃ caiva dvitīyaṃ śiṣṭalakṣaṇam
 60 guruśuśrūṣaṇaṃ satyam akrodho dānam eva ca
   etac catuṣṭayaṃ brahmañ śiṣṭācāreṣu nityadā
 61 śiṣṭācāre mano kṛtvā pratiṣṭhāpya ca sarvaśaḥ
   yām ayaṃ labhate tuṣṭiṃ sā na śakyā hy ato 'nyathā
 62 vedasyopaniṣat satyaṃ satyasyopaniṣad damaḥ
   damasyopaniṣat tyāgaḥ śiṣṭācāreṣu nityadā
 63 ye tu dharmam asūyante buddhimohānvitā narāḥ
   apathā gacchatāṃ teṣām anuyātāpi pīḍyate
 64 ye tu śiṣṭāḥ suniyatāḥ śrutityāgaparāyaṇāḥ
   dharmyaṃ panthānam ārūḍhāḥ satyadharmaparāyaṇāḥ
 65 niyacchanti parāṃ buddhiṃ śiṣṭācārānvitā narāḥ
   upādhyāya mate yuktāḥ sthityā dharmārthadarśinaḥ
 66 nāstikān bhinnamaryādān krūrān pāpamatau sthitān
   tyaja tāñ jñānam āśritya dhārmikān upasevya ca
 67 kālalobha grahākīrṇāṃ pañcendriya jalāṃ nadīm
   nāvaṃ dhṛtimayīṃ kṛtvā janma durgāṇi saṃtara
 68 krameṇa saṃcito dharmo buddhiyogamayo mahān
   śiṣṭācāre bhavet sādhū rāgaḥ śukleva vāsasi
 69 ahiṃsā satyavacanaṃ sarvabhūtahitaṃ param
   ahiṃsā paramo dharmaḥ sa ca satye pratiṣṭhitaḥ
   satye kṛtvā pratiṣṭhāṃ tu pravartante pravṛttayaḥ
 70 satyam eva garīyas tu śiṣṭācāra niṣevitam
   ācāraś ca satāṃ dharmaḥ santaś cācāra lakṣaṇaḥ
 71 yo yathā prakṛtir jantuḥ svāṃ svāṃ prakṛtim aśnute
   pāpātmā krodhakāmādīn doṣān āpnoty anātmavān
 72 ārambho nyāyayukto yaḥ sa hi dharma iti smṛtaḥ
   anācāras tv adharmeti etac chiṣṭānuśāsanam
 73 akrudhyanto 'nasūyanto nirahaṃkāra matsarāḥ
   ṛjavaḥ śama saṃpannāḥ śiṣṭācārā bhavanti te
 74 traividya vṛddhāḥ śucayaś vṛttavanto manasvinaḥ
   guruśuśrūṣavo dāntāḥ śiṣṭācārā bhavanty uta
 75 teṣām adīnasattvānāṃ duṣkarācāra karmaṇām
   svaiḥ karmabhiḥ satkṛtānāṃ ghoratvaṃ saṃpraṇaśyati
 76 taṃ sad ācāram āścaryaṃ purāṇaṃ śāśvataṃ dhruvam
   dharmaṃ dharmeṇa paśyantaḥ svargaṃ yānti manīṣiṇaḥ
 77 āstikā mānahīnāś ca dvijātijanapūjakāḥ
   śrutavṛttopasaṃpannās te santaḥ svargagāminaḥ
 78 vedoktaḥ paramo dharmo dharmaśāstreṣu cāparaḥ
   śiṣṭācīrṇaś ca śiṣṭānāṃ trividhaṃ dharmalakṣaṇam
 79 pāraṇaṃ cāpi vidyānāṃ tīrthānām avagāhanam
   kṣamā satyārjavaṃ śaucaṃ śiṣṭācāra nidarśanam
 80 sarvabhūtadayāvanto ahiṃsā niratāḥ sadā
   paruṣaṃ na prabhāṣante sadā santo dvija priyāḥ
 81 śubhānām aśubhānāṃ ca karmaṇāṃ phalasaṃcaye
   vipākam abhijānanti te śiṣṭāḥ śiṣṭasaṃmatāḥ
 82 nyāyopetā guṇopetāḥ sarvalokahitaiṣiṇaḥ
   santaḥ svargajitaḥ śuklāḥ saṃniviṣṭāś ca satpathe
 83 dātāraḥ saṃvibhaktāro dīnānugraha kāriṇaḥ
   sarvabhūtadayāvantas te śiṣṭāḥ śiṣṭasaṃmatāḥ
 84 sarvapūjyāḥ śrutadhanās tathaiva ca tapasvinaḥ
   dānanityāḥ sukhāṁl lokān āpnuvantīha ca śriyam
 85 pīḍayā ca kalatrasya bhṛtyānāṃ ca samāhitāḥ
   atiśaktyā prayacchanti santaḥ sadbhiḥ samāgatāḥ
 86 lokayātrāṃ ca paśyanto dharmam ātmahitāni ca
   evaṃ santo vartamānā edhante śāśvatīḥ samāḥ
 87 ahiṃsā satyavacanam ānṛśaṃsyam athārjavam
   adroho nātimānaś ca hrīs titikṣā damaḥ śamaḥ
 88 dhīmanto dhṛtimantaś ca bhūtānām anukampakāḥ
   akāma dveṣasaṃyuktās te santo lokasatkṛtāḥ
 89 trīṇy eva tu padāny āhuḥ satāṃ vṛttam anuttamam
   na druhyec caiva dadyāc ca satyaṃ caiva sadā vadet
 90 sarvatra ca dayāvantaḥ santaḥ karuṇavedinaḥ
   gacchantīha susaṃtuṣṭā dharmyaṃ panthānam uttamam
   śiṣṭācārā mahātmāno yeṣāṃ dharmaḥ suniścitaḥ
 91 anasūyā kṣamā śāntiḥ saṃtoṣaḥ priyavāditā
   kāmakrodhaparityāgaḥ śiṣṭācāra niṣevaṇam
 92 karmaṇā śrutasaṃpannaṃ satāṃ mārgam anuttamam
   śiṣṭācāraṃ niṣevante nityaṃ dharmeṣv atandritāḥ
 93 prajñā prāsādam āruhya muhyato mahato janān
   prekṣanto lokavṛttāni vividhāni dvijottama
   atipuṇyāni pāpāni tāni dvija varottama
 94 etat te sarvam ākhyātaṃ yathā prajñaṃ yathā śrutam
   śiṣṭācāra guṇān brahman puraskṛtya dvijarṣabha


Next: Chapter 199