Hinduism  Mahabharata  Index  Book 7 Index  Previous  Next 

Book 7 in English

The Mahabharata in Sanskrit

Book 7
Chapter 154

 1 [स]
    निहत्यालायुधं रक्षः परहृष्टात्मा घटॊत्कचः
    ननाद विविधान नादान वाहिन्याः परमुखे सथितः
 2 तस्य तं तुमुलं शब्दं शरुत्वा कुञ्जरकम्पनम
    तावकानां महाराज भयम आसीत सुदारुणम
 3 अलायुध विषक्तं तु भैमसेनिं महाबलम
    दृष्ट्वा कर्णॊ महाबाहुः पाञ्चालान समुपाद्रवत
 4 दशभिर दशभिर बाणैर धृष्टद्युम्न शिखण्डिनौ
    दृढैः पूर्णायतॊत्सृष्टैर बिभेद नतपर्वभिः
 5 ततः परमनाराचैर युधामन्यूत्तमौजसौ
    सात्यकिं च रथॊदारं कम्पयाम आस मार्गणैः
 6 तेषाम अभ्यस्यतां तत्र सर्वेषां सव्यदक्षिणम
    मण्डलान्य एव चापानि वयदृश्यन्त जनाधिप
 7 तेषां जयातलनिर्घॊषॊ रथनेमि सवनश च ह
    मेघानाम इव घर्मान्ते बभूव तुमुलॊ निशि
 8 जयानेमिघॊषस्तनयित्नुमान वै; धनुस तडिन मण्डलकेतुशृङ्गः
    शरौघवर्षाकुल वृष्टिमांश च; संग्राममेघः स बभूव राजन
 9 तद उधतं शैल इवाप्रकम्प्यॊ; वर्षं महच छैलसमानसारः
    विध्वंसयाम आस रणे नरेन्द्र; वैकर्तनः शत्रुगणावमर्दी
 10 ततॊ ऽतुलैर वज्रनिपात कल्पैः; शितैः शरैः काञ्चनचित्रपुङ्खैः
   शत्रून वयपॊहत समरे महात्मा; वैकर्तनः पुत्र हिते रतस ते
 11 संछिन्नभिन्न धवजिनश च के चित; के चिच छरैर अर्दित भिन्नदेहाः
   के चिद विसूता विहयाश च के चिद; वैकर्तनेनाशु कृता बभूवुः
 12 अविन्दमानास तव अथ शर्म संख्ये; यौधिष्ठिरं ते बलम अन्वपद्यन
   तान परेक्ष्य भग्नान विमुखीकृतांश च; घटॊत्कचॊ रॊषम अतीव चक्रे
 13 आस्थाय तं काञ्चनरत्नचित्रं; रथॊत्तमं सिंह इवॊननाद
   वैकर्तनं कर्णम उपेत्य चापि; विव्याध वज्रप्रतिमैः पृषत्कैः
 14 तौ कर्णिनाराच शिलीमुखैश; च नालीकदण्डैश च स वत्सदन्तैः
   वराहकर्णैः स विषाण शृङ्गैः; कषुरप्र वर्षैश च विनेदतुः खम
 15 तद बाणधारावृतम अन्तरिक्षं; तिर्यग्गताभिः समरे रराज
   सुवर्णपुङ्ख जवलितप्रभाभिर; विचित्रपुष्पाभिर इव सरजाभिः
 16 समं हि ताव आप्रतिम परभावाव; अन्यॊन्यम आजघ्नतुर उत्तमास्त्रैः
   तयॊर हि वीरॊत्तमयॊर न कश चिद; ददर्श तस्मिन समरे विशेषम
 17 अतीव तच चित्रम अतीव रूपं; बभूव युद्धं रविभीम सून्वॊः
   समाकुलं शस्त्रनिपात घॊरं; दिवीव राह्वंशुमतॊः परतप्तम
 18 घटॊत्कचॊ यदा कर्णं न विशेषयते नृप
   तदा परादुश्चकारॊग्रम अस्त्रम अस्त्रविदां वरः
 19 तेनास्त्रेण हयान पूर्वं हत्वा कर्णस्य राक्षसः
   सारथिं चैव हैडिम्बः कषिप्रम अन्तरधीयत
 20 [धृ]
   तथा हय अन्तर्हिते तस्मिन कूटयॊधिनि राक्षसे
   मामकैः परतिपन्नं यत तन ममाचक्ष्व संजय
 21 [स]
   अन्तर्हितं राक्षसं तं विदित्वा; संप्राक्रॊशन कुरवः सर्व एव
   कथं नायं राक्षसः कूटयॊधी; हन्यात कर्णं समरे ऽदृश्यमानः
 22 ततः कर्णॊ लघुचित्रास्त्र यॊधी; सर्वा दिशॊ वयावृणॊद बाणजालैः
   न वै किं चिद वयापतत तत्र भूतं; तमॊ भूते सायकैर अन्तरिक्षे
 23 न चाददानॊ न च संदधानॊ; न चेषुधी सपृशमानः कराग्रैः
   अदृश्यद वै लाघवात सूतपुत्रः; सर्वं बाणैश छादयानॊ ऽनतरिक्षम
 24 ततॊ मायां विहिताम अन्तरिक्षे; घॊरां भीमां दारुणां राक्षसेन
   संपश्यामॊ लॊहिताभ्र परकाशां; देदीप्यन्तीम अग्निशिखाम इवॊग्राम
 25 ततस तस्या विद्युतः परादुरासन्न; उल्काश चापि जवलिताः कौरवेन्द्र
   घॊषश चान्यः परादुरासीत सुघॊरः; सहस्रशॊ नदतां दुन्दुभीनाम
 26 ततः शराः परापतन रुक्मपुङ्खाः; शक्त्याः परासा मुसलान्य आयुधानि
   परश्वधास तैलधौताश च खड्गाः; परदीप्ताग्राः पट्टिशास तॊमराश च
 27 मयूखिनः परिघा लॊहबद्धा; गदाश चित्राः शितधाराश च शूलाः
   गुर्व्यॊ गदा हेमपट्टावनद्धाः; शतघ्न्यश च परादुरासन समन्तात
 28 महाशिलाश चापतंस तत्र तत्र; सहस्रशः साशनयः सवज्राः
   चक्राणि चानेक शतक्षुराणि; परादुर्बभूवुर जवलनप्रभाणि
 29 तां शक्तिपाषाण परश्वधानां; परासासिवज्राशनिमुद्गराणाम
   वृष्टिं विशालां जवलितां पतन्तीं; कर्णः शरौघैर न शशाक हन्तुम
 30 शराहतानाम अततां हयानां; वज्राहतानां पततां गजानाम
   शिला हतानां च महारथानां; महान निनादः पततां बभूव
 31 सुभीम नानाविध शस्त्रपातैर; घटॊत्कचेनाभिहतं समन्तात
   दौर्यॊधनं तद बलम आर्तरूपम; आवर्तमानं ददृशे भरमन्तम
 32 हाहाकृतं संपरिवर्तमानं; संलीयमानं च विषण्णरूपम
   ते तव आर्य भावात पुरुषप्रवीराः; पराङ्मुखा न बभूवुस तदानीम
 33 तां राक्षसीं घॊरतरां सुभीमां; वृष्टिं महाशस्त्रमयीं पतन्तीम
   दृष्ट्वा बलौघांश च निपात्यमानान; महद भयं तव पुत्रान विवेश
 34 शिवाश च वैश्वानरदीप्तजिह्वाः; सुभीम नादाः शतशॊ नदन्त्यः
   रक्षॊगणान नर्दतश चाभिवीक्ष्य; नरेन्द्र यॊधा वयथिता बभूवुः
 35 ते दीप्तजिह्वानन तीक्ष्णदंष्ट्रा; विभीषणाः शैलनिकाश कायाः
   नभॊगताः शक्तिविषक्त हस्ता; मेघा वयमुञ्चन्न इव वृष्टिमार्गम
 36 तैर आहतास ते शरशक्तिशूलैर; गदाभिर उग्रैः परिघैश च दीप्तैः
   वज्रैः पिनाकैर अशनिप्रहारैश; चक्रैः शतघ्न्युन्मथिताश च पेतुः
 37 हुडा भुशुण्ड्यॊ ऽशमगुडाः शतध्न्यः; सथूणाश च कार्ष्णायस पट्टनद्धाः
   अवाकिरंस तव पुत्रस्य सैन्यं; तथा रौद्रं कश्मलं परादुरासीत
 38 निष्कीर्णान्त्रा विहतैर उत्तमाङ्गैः; संभग्नाङ्गाः शेरते तत्र शूराः
   भिन्ना हयाः कुञ्जराश चावभग्नाः; संचूर्णिताश चैव रथाः शिलाभिः
 39 एवं महच छस्त्र वर्षं सृजन्तस; ते यातुधाना भुवि घॊररूपाः
   मायाः सृष्टास तत्र घटॊत्कचेन; नामुञ्चन वै याचमानं न भीतम
 40 तस्मिन घॊरे कुरुवीरावमर्दे; कालॊत्सृष्टे कषत्रियाणाम अभावे
   ते वै भग्नाः सहसा वयद्रवन्त; पराक्रॊशन्तः कौरवाः सर्व एव
 41 पलायध्वं कुरवॊ नैतद अस्ति; सेन्द्रा देवा घनन्ति नः पाण्डवार्थे
   तथा तेषां मज्जतां भारतानां; न सम दवीपस तत्र कश चिद बभूव
 42 तस्मिन संक्रन्दे तुमुले वर्तमाने; सैन्ये भग्ने लीयमाने कुरूणाम
   अनीकानां परविभागे ऽपरकाशे; न जञायन्ते कुरवॊ नेतरे वा
 43 निर्मर्यादे विद्रवे घॊररूपे; सर्वा दिशः परेक्षमाणाः सम शून्याः
   तां शस्त्रवृष्टिम उरसा गाहमानं; कर्णं चैकं तत्र राजन्न अपश्यम
 44 ततॊ बाणैर आवृणॊद अन्तरिक्षं; दिव्यां मायां यॊधयन राक्षसस्य
   हरीमान कुर्वन दुष्करम आर्य कर्म; नैवामुह्यत संयुगे सूतपुत्रः
 45 ततॊ भीताः समुदैक्षन्त कर्णं; राजन सर्वे सैन्धवा बाह्लिकाश च
   असंमॊहं पूजयन्तॊ ऽसय संख्ये; संपश्यन्तॊ विजयं राक्षसस्य
 46 तेनॊत्सृष्टा चक्रयुक्ता शतघ्नी; समं सर्वांश चतुरॊ ऽशवाञ जघान
   ते जानुभिर जगतीम अन्वपद्यन; गतासवॊ निर्दशनाक्षि जिह्वाः
 47 ततॊ हताश्वाद अवरुह्य वाहाद; अन्तर मनाः कुरुषु पराद्रवत्सु
   दिव्ये चास्त्रे मायया वध्यमाने; नैमामुह्यच चिन्तयन पराप्तकालम
 48 ततॊ ऽबरुवन कुरवः सर्व एव; कर्णं दृष्ट्वा घॊररूपां च मायाम
   शक्त्या रक्षॊ जहि कर्णाद य तूर्णं; नश्यन्त्य एते कुरवॊ धार्तराष्ट्राः
 49 करिष्यतः किं च नॊ भीम पार्थौ; पतन्तम एनं जहि रक्षॊ निशीथे
   यॊ नः संग्रामाद घॊररूपाद विमुच्येत; स नः पार्थान समरे यॊधयेत
 50 तस्माद एनं राक्षसं घॊररूपं; जहि शक्त्या दत्तया वासवेन
   मा कौरवाः सर्व एवेन्द्र कल्पा; रात्री मुखे कर्ण नेशुः स यॊधाः
 51 स वध्यमानॊ रक्षसा वै निशीथे; दृष्ट्वा राजन नश्यमानं बलं च
   महच च शरुत्वा निनदं कौरवाणां; मतिं दध्रे शक्तिमॊक्षाय कर्णः
 52 स वै करुद्धः सिंह इवात्यमर्षी; नामर्षयत परतिघातं रणे तम
   शक्तिं शरेष्ठां वैजयन्तीम असह्यां; समाददे तस्य वधं चिकीर्षन
 53 यासौ राजन निहिता वर्षपूगान; वधायाजौ सत्कृता फल्गुनस्य
   यां वै परादात सूतपुत्राय शक्रः; शक्तिं शरेष्ठां कुण्डलाभ्यां निमाय
 54 तां वै शक्तिं लेलिहानां परदीप्तां; पाशैर युक्ताम अन्तकस्येव रात्रिम
   मृत्यॊः सवसारं जवलिताम इवॊल्कां; वैकर्तनः पराहिणॊद राक्षसाय
 55 ताम उत्तमां परकायापहन्त्रीं; दृष्ट्वा सौतेर बाहुसंस्थां जवलन्तीम
   भीतं रक्षॊ विप्रदुद्राव राजन; कृत्वात्मानं विन्ध्यपादप्रमाणम
 56 दृष्ट्वा शक्तिं कर्ण बाह्वन्तरस्थां; नेदुर भूतान्य अन्तरिक्षे नरेन्द्र
   ववुर तावास तुमुलाश चापि राजन; स निर्घाता चाशानिर गां जगाम
 57 सा तां मायां भस्मकृत्वा जवलन्ती; भित्त्वा गाढं हृदयं राक्षसस्य
   ऊर्ध्वं ययौ दीप्यमाना निशायां; नक्षत्राणाम अन्तराण्य आविशन्ती
 58 युद्ध्वा चित्रैर विविधैः शस्त्रपूगैर; दिव्यैर वीरॊ मानुषै राक्षसैश च
   नदन नादान विविधान भैरवांश च; पराणान इष्टांस तयाजितः शक्र शक्त्या
 59 इदं चान्यच चित्रम आश्चर्यरूपं; चकारासौ कर्म शत्रुक्षयाय
   तस्मिन काले शक्तिनिर्भिन्न मर्मा; बभौ राजन मेघशैलप्रकाशः
 60 ततॊ ऽनतरिक्षाद अपतद गतासुः; स राक्षसेन्द्रॊ भुवि भिन्नदेहः
   अवाक्शिराः सतब्धगात्रॊ विजिह्वॊ; घटॊत्कचॊ महद आस्थाय रूपम
 61 स तद रूपं भैरवं भीमकर्मा; भीमं कृत्वा भैमसेनिः पपात
   हतॊ ऽपय एवं तव सैन्य एकदेशम; अपॊथयत कौरवान भीषयाणः
 62 ततॊ मिश्राः पराणदन सिंहनादैर; भेर्यः शङ्खा मुरजाश चानकाश च
   दग्धां मायां निहतं राक्षसं च; दृष्ट्वा हृष्टाः पराणदन कौरवेयाः
 63 ततः कर्णः कुरुभिः पूज्यमानॊ; यथा शक्रॊ वृत्रवधे मरुद्भिः
   अन्वारूढस तव पुत्रं रथस्यं; हृष्टश चापि पराविशत सवं स सैन्यम
 1 [s]
    nihatyālāyudhaṃ rakṣaḥ prahṛṣṭātmā ghaṭotkacaḥ
    nanāda vividhān nādān vāhinyāḥ pramukhe sthitaḥ
 2 tasya taṃ tumulaṃ śabdaṃ śrutvā kuñjarakampanam
    tāvakānāṃ mahārāja bhayam āsīt sudāruṇam
 3 alāyudha viṣaktaṃ tu bhaimaseniṃ mahābalam
    dṛṣṭvā karṇo mahābāhuḥ pāñcālān samupādravat
 4 daśabhir daśabhir bāṇair dhṛṣṭadyumna śikhaṇḍinau
    dṛḍhaiḥ pūrṇāyatotsṛṣṭair bibheda nataparvabhiḥ
 5 tataḥ paramanārācair yudhāmanyūttamaujasau
    sātyakiṃ ca rathodāraṃ kampayām āsa mārgaṇaiḥ
 6 teṣām abhyasyatāṃ tatra sarveṣāṃ savyadakṣiṇam
    maṇḍalāny eva cāpāni vyadṛśyanta janādhipa
 7 teṣāṃ jyātalanirghoṣo rathanemi svanaś ca ha
    meghānām iva gharmānte babhūva tumulo niśi
 8 jyānemighoṣastanayitnumān vai; dhanus taḍin maṇḍalaketuśṛṅgaḥ
    śaraughavarṣākula vṛṣṭimāṃś ca; saṃgrāmameghaḥ sa babhūva rājan
 9 tad udhataṃ śaila ivāprakampyo; varṣaṃ mahac chailasamānasāraḥ
    vidhvaṃsayām āsa raṇe narendra; vaikartanaḥ śatrugaṇāvamardī
 10 tato 'tulair vajranipāta kalpaiḥ; śitaiḥ śaraiḥ kāñcanacitrapuṅkhaiḥ
   śatrūn vyapohat samare mahātmā; vaikartanaḥ putra hite ratas te
 11 saṃchinnabhinna dhvajinaś ca ke cit; ke cic charair ardita bhinnadehāḥ
   ke cid visūtā vihayāś ca ke cid; vaikartanenāśu kṛtā babhūvuḥ
 12 avindamānās tv atha śarma saṃkhye; yaudhiṣṭhiraṃ te balam anvapadyan
   tān prekṣya bhagnān vimukhīkṛtāṃś ca; ghaṭotkaco roṣam atīva cakre
 13 āsthāya taṃ kāñcanaratnacitraṃ; rathottamaṃ siṃha ivonanāda
   vaikartanaṃ karṇam upetya cāpi; vivyādha vajrapratimaiḥ pṛṣatkaiḥ
 14 tau karṇinārāca śilīmukhaiś; ca nālīkadaṇḍaiś ca sa vatsadantaiḥ
   varāhakarṇaiḥ sa viṣāṇa śṛṅgaiḥ; kṣurapra varṣaiś ca vinedatuḥ kham
 15 tad bāṇadhārāvṛtam antarikṣaṃ; tiryaggatābhiḥ samare rarāja
   suvarṇapuṅkha jvalitaprabhābhir; vicitrapuṣpābhir iva srajābhiḥ
 16 samaṃ hi tāv āpratima prabhāvāv; anyonyam ājaghnatur uttamāstraiḥ
   tayor hi vīrottamayor na kaś cid; dadarśa tasmin samare viśeṣam
 17 atīva tac citram atīva rūpaṃ; babhūva yuddhaṃ ravibhīma sūnvoḥ
   samākulaṃ śastranipāta ghoraṃ; divīva rāhvaṃśumatoḥ prataptam
 18 ghaṭotkaco yadā karṇaṃ na viśeṣayate nṛpa
   tadā prāduścakārogram astram astravidāṃ varaḥ
 19 tenāstreṇa hayān pūrvaṃ hatvā karṇasya rākṣasaḥ
   sārathiṃ caiva haiḍimbaḥ kṣipram antaradhīyata
 20 [dhṛ]
   tathā hy antarhite tasmin kūṭayodhini rākṣase
   māmakaiḥ pratipannaṃ yat tan mamācakṣva saṃjaya
 21 [s]
   antarhitaṃ rākṣasaṃ taṃ viditvā; saṃprākrośan kuravaḥ sarva eva
   kathaṃ nāyaṃ rākṣasaḥ kūṭayodhī; hanyāt karṇaṃ samare 'dṛśyamānaḥ
 22 tataḥ karṇo laghucitrāstra yodhī; sarvā diśo vyāvṛṇod bāṇajālaiḥ
   na vai kiṃ cid vyāpatat tatra bhūtaṃ; tamo bhūte sāyakair antarikṣe
 23 na cādadāno na ca saṃdadhāno; na ceṣudhī spṛśamānaḥ karāgraiḥ
   adṛśyad vai lāghavāt sūtaputraḥ; sarvaṃ bāṇaiś chādayāno 'ntarikṣam
 24 tato māyāṃ vihitām antarikṣe; ghorāṃ bhīmāṃ dāruṇāṃ rākṣasena
   saṃpaśyāmo lohitābhra prakāśāṃ; dedīpyantīm agniśikhām ivogrām
 25 tatas tasyā vidyutaḥ prādurāsann; ulkāś cāpi jvalitāḥ kauravendra
   ghoṣaś cānyaḥ prādurāsīt sughoraḥ; sahasraśo nadatāṃ dundubhīnām
 26 tataḥ śarāḥ prāpatan rukmapuṅkhāḥ; śaktyāḥ prāsā musalāny āyudhāni
   paraśvadhās tailadhautāś ca khaḍgāḥ; pradīptāgrāḥ paṭṭiśās tomarāś ca
 27 mayūkhinaḥ parighā lohabaddhā; gadāś citrāḥ śitadhārāś ca śūlāḥ
   gurvyo gadā hemapaṭṭāvanaddhāḥ; śataghnyaś ca prādurāsan samantāt
 28 mahāśilāś cāpataṃs tatra tatra; sahasraśaḥ sāśanayaḥ savajrāḥ
   cakrāṇi cāneka śatakṣurāṇi; prādurbabhūvur jvalanaprabhāṇi
 29 tāṃ śaktipāṣāṇa paraśvadhānāṃ; prāsāsivajrāśanimudgarāṇām
   vṛṣṭiṃ viśālāṃ jvalitāṃ patantīṃ; karṇaḥ śaraughair na śaśāka hantum
 30 śarāhatānām atatāṃ hayānāṃ; vajrāhatānāṃ patatāṃ gajānām
   śilā hatānāṃ ca mahārathānāṃ; mahān ninādaḥ patatāṃ babhūva
 31 subhīma nānāvidha śastrapātair; ghaṭotkacenābhihataṃ samantāt
   dauryodhanaṃ tad balam ārtarūpam; āvartamānaṃ dadṛśe bhramantam
 32 hāhākṛtaṃ saṃparivartamānaṃ; saṃlīyamānaṃ ca viṣaṇṇarūpam
   te tv ārya bhāvāt puruṣapravīrāḥ; parāṅmukhā na babhūvus tadānīm
 33 tāṃ rākṣasīṃ ghoratarāṃ subhīmāṃ; vṛṣṭiṃ mahāśastramayīṃ patantīm
   dṛṣṭvā balaughāṃś ca nipātyamānān; mahad bhayaṃ tava putrān viveśa
 34 śivāś ca vaiśvānaradīptajihvāḥ; subhīma nādāḥ śataśo nadantyaḥ
   rakṣogaṇān nardataś cābhivīkṣya; narendra yodhā vyathitā babhūvuḥ
 35 te dīptajihvānana tīkṣṇadaṃṣṭrā; vibhīṣaṇāḥ śailanikāśa kāyāḥ
   nabhogatāḥ śaktiviṣakta hastā; meghā vyamuñcann iva vṛṣṭimārgam
 36 tair āhatās te śaraśaktiśūlair; gadābhir ugraiḥ parighaiś ca dīptaiḥ
   vajraiḥ pinākair aśaniprahāraiś; cakraiḥ śataghnyunmathitāś ca petuḥ
 37 huḍā bhuśuṇḍyo 'śmaguḍāḥ śatadhnyaḥ; sthūṇāś ca kārṣṇāyasa paṭṭanaddhāḥ
   avākiraṃs tava putrasya sainyaṃ; tathā raudraṃ kaśmalaṃ prādurāsīt
 38 niṣkīrṇāntrā vihatair uttamāṅgaiḥ; saṃbhagnāṅgāḥ śerate tatra śūrāḥ
   bhinnā hayāḥ kuñjarāś cāvabhagnāḥ; saṃcūrṇitāś caiva rathāḥ śilābhiḥ
 39 evaṃ mahac chastra varṣaṃ sṛjantas; te yātudhānā bhuvi ghorarūpāḥ
   māyāḥ sṛṣṭās tatra ghaṭotkacena; nāmuñcan vai yācamānaṃ na bhītam
 40 tasmin ghore kuruvīrāvamarde; kālotsṛṣṭe kṣatriyāṇām abhāve
   te vai bhagnāḥ sahasā vyadravanta; prākrośantaḥ kauravāḥ sarva eva
 41 palāyadhvaṃ kuravo naitad asti; sendrā devā ghnanti naḥ pāṇḍavārthe
   tathā teṣāṃ majjatāṃ bhāratānāṃ; na sma dvīpas tatra kaś cid babhūva
 42 tasmin saṃkrande tumule vartamāne; sainye bhagne līyamāne kurūṇām
   anīkānāṃ pravibhāge 'prakāśe; na jñāyante kuravo netare vā
 43 nirmaryāde vidrave ghorarūpe; sarvā diśaḥ prekṣamāṇāḥ sma śūnyāḥ
   tāṃ śastravṛṣṭim urasā gāhamānaṃ; karṇaṃ caikaṃ tatra rājann apaśyam
 44 tato bāṇair āvṛṇod antarikṣaṃ; divyāṃ māyāṃ yodhayan rākṣasasya
   hrīmān kurvan duṣkaram ārya karma; naivāmuhyat saṃyuge sūtaputraḥ
 45 tato bhītāḥ samudaikṣanta karṇaṃ; rājan sarve saindhavā bāhlikāś ca
   asaṃmohaṃ pūjayanto 'sya saṃkhye; saṃpaśyanto vijayaṃ rākṣasasya
 46 tenotsṛṣṭā cakrayuktā śataghnī; samaṃ sarvāṃś caturo 'śvāñ jaghāna
   te jānubhir jagatīm anvapadyan; gatāsavo nirdaśanākṣi jihvāḥ
 47 tato hatāśvād avaruhya vāhād; antar manāḥ kuruṣu prādravatsu
   divye cāstre māyayā vadhyamāne; naimāmuhyac cintayan prāptakālam
 48 tato 'bruvan kuravaḥ sarva eva; karṇaṃ dṛṣṭvā ghorarūpāṃ ca māyām
   śaktyā rakṣo jahi karṇād ya tūrṇaṃ; naśyanty ete kuravo dhārtarāṣṭrāḥ
 49 kariṣyataḥ kiṃ ca no bhīma pārthau; patantam enaṃ jahi rakṣo niśīthe
   yo naḥ saṃgrāmād ghorarūpād vimucyet; sa naḥ pārthān samare yodhayeta
 50 tasmād enaṃ rākṣasaṃ ghorarūpaṃ; jahi śaktyā dattayā vāsavena
   mā kauravāḥ sarva evendra kalpā; rātrī mukhe karṇa neśuḥ sa yodhāḥ
 51 sa vadhyamāno rakṣasā vai niśīthe; dṛṣṭvā rājan naśyamānaṃ balaṃ ca
   mahac ca śrutvā ninadaṃ kauravāṇāṃ; matiṃ dadhre śaktimokṣāya karṇaḥ
 52 sa vai kruddhaḥ siṃha ivātyamarṣī; nāmarṣayat pratighātaṃ raṇe tam
   śaktiṃ śreṣṭhāṃ vaijayantīm asahyāṃ; samādade tasya vadhaṃ cikīrṣan
 53 yāsau rājan nihitā varṣapūgān; vadhāyājau satkṛtā phalgunasya
   yāṃ vai prādāt sūtaputrāya śakraḥ; śaktiṃ śreṣṭhāṃ kuṇḍalābhyāṃ nimāya
 54 tāṃ vai śaktiṃ lelihānāṃ pradīptāṃ; pāśair yuktām antakasyeva rātrim
   mṛtyoḥ svasāraṃ jvalitām ivolkāṃ; vaikartanaḥ prāhiṇod rākṣasāya
 55 tām uttamāṃ parakāyāpahantrīṃ; dṛṣṭvā sauter bāhusaṃsthāṃ jvalantīm
   bhītaṃ rakṣo vipradudrāva rājan; kṛtvātmānaṃ vindhyapādapramāṇam
 56 dṛṣṭvā śaktiṃ karṇa bāhvantarasthāṃ; nedur bhūtāny antarikṣe narendra
   vavur tāvās tumulāś cāpi rājan; sa nirghātā cāśānir gāṃ jagāma
 57 sā tāṃ māyāṃ bhasmakṛtvā jvalantī; bhittvā gāḍhaṃ hṛdayaṃ rākṣasasya
   ūrdhvaṃ yayau dīpyamānā niśāyāṃ; nakṣatrāṇām antarāṇy āviśantī
 58 yuddhvā citrair vividhaiḥ śastrapūgair; divyair vīro mānuṣai rākṣasaiś ca
   nadan nādān vividhān bhairavāṃś ca; prāṇān iṣṭāṃs tyājitaḥ śakra śaktyā
 59 idaṃ cānyac citram āścaryarūpaṃ; cakārāsau karma śatrukṣayāya
   tasmin kāle śaktinirbhinna marmā; babhau rājan meghaśailaprakāśaḥ
 60 tato 'ntarikṣād apatad gatāsuḥ; sa rākṣasendro bhuvi bhinnadehaḥ
   avākśirāḥ stabdhagātro vijihvo; ghaṭotkaco mahad āsthāya rūpam
 61 sa tad rūpaṃ bhairavaṃ bhīmakarmā; bhīmaṃ kṛtvā bhaimaseniḥ papāta
   hato 'py evaṃ tava sainy ekadeśam; apothayat kauravān bhīṣayāṇaḥ
 62 tato miśrāḥ prāṇadan siṃhanādair; bheryaḥ śaṅkhā murajāś cānakāś ca
   dagdhāṃ māyāṃ nihataṃ rākṣasaṃ ca; dṛṣṭvā hṛṣṭāḥ prāṇadan kauraveyāḥ
 63 tataḥ karṇaḥ kurubhiḥ pūjyamāno; yathā śakro vṛtravadhe marudbhiḥ
   anvārūḍhas tava putraṃ rathasyaṃ; hṛṣṭaś cāpi prāviśat svaṃ sa sainyam


Next: Chapter 155