Hinduism  Mahabharata  Index  Book 9 Index  Previous  Next 

Book 9 in English

The Mahabharata in Sanskrit

Book 9
Chapter 45

 1 [वै]
    शृणु मातृगणान राजन कुमारानुचरान इमान
    कीर्त्यमानान मया वीर सपत्नगणसूदनान
 2 यशस्विनीनां मातॄणां शृणु नामानि भारत
    याभिर वयाप्तास तरयॊ लॊकाः कल्याणीभिश चराचराः
 3 परभावती विशालाक्षी पलिता गॊनसी तथा
    शरीमती बहुला चैव तथैव बहुपुत्रिका
 4 अप्सु जाता च गॊपाली बृहद अम्बालिका तथा
    जयावती मालतिका धरुवरत्ना भयंकरी
 5 वसु दामा सुदामा च विशॊका नन्दिनी तथा
    एकचूडा महाचूडा चक्रनेमिश च भारत
 6 उत्तेजनी जयत्सेना कमलाक्ष्य अथ शॊभना
    शत्रुंजया तथा चैव करॊधना शलभी खरी
 7 माधवी शुभवक्त्रा च तीर्थनेमिश च भारत
    गीतप्रिया च कल्याणी कद्रुला चामिताशना
 8 मेघस्वना भॊगवती सुभ्रूश च कनकावती
    अलाताक्षी वीर्यवती विद्युज्जिह्वा च भारत
 9 पद्मावती सुनक्षत्रा कन्दरा बहुयॊजना
    संतानिका च कौरव्य कमला च महाबला
 10 सुदामा बहु दामा च सुप्रभा च यशस्विनी
   नृत्यप्रिया च राजेन्द्र शतॊलूखल मेखला
 11 शतघण्टा शतानन्दा भग नन्दा च भागिनी
   वपुष्मती चन्द्र शीता भद्र काली च भारत
 12 संकारिका निष्कुटिका भरमा चत्वरवासिनी
   सुमङ्गला सवस्तिमती वृद्धिकामा जय परिया
 13 धनदा सुप्रसादा च भवदा च जलेश्वरी
   एडी भेडी सुमेडी च वेताल जननी तथा
   कण्डूतिः कालिका चैव देव मित्रा च भारत
 14 लम्बसी केतकी चैव चित्रसेना तहा बला
   कुक्कुटिका शङ्खनिका तथा जर्जरिका नृप
 15 कुण्डारिका कॊकलिका कण्डरा च शतॊदरी
   उत्क्राथिनी जरेणा च महावेगा च कङ्कणा
 16 मनॊजवा कण्टकिनी परघसा पूतना तथा
   खशया चुर्व्युटिर वामा करॊशनाथ तडित परभा
 17 मण्डॊदरी च तुण्डा च कॊटरा मेघवासिनी
   सुभगा लम्बिनी लम्बा वसु चूडा विकत्थनी
 18 ऊर्ध्ववेणी धरा चैव पिङ्गाक्षी लॊहमेखला
   पृथु वक्त्रा मधुरिका मधु कुम्भा तथैव च
 19 पक्षालिका मन्थनिका जरायुर जर्जरानना
   खयाता दहदहा चैव तथा धमधमा नृप
 20 खण्डखण्डा च राजेन्द्र पूषणा मणिकुण्डला
   अमॊचा चैव कौरव्य तथा लम्बपयॊधरा
 21 वेणुवीणा धरा चैव पिङ्गाक्षी लॊहमेखला
   शशॊलूक मुखी कृष्णा खरजङ्घा महाजवा
 22 शिशुमार मुखी शवेता लॊहिताक्षी विभीषणा
   जटालिका कामचरी दीर्घजिह्वा बलॊत्कटा
 23 कालेडिका वामनिका मुकुटा चैव भारत
   लॊहिताक्षी महाकाया हरि पिण्डी च भूमिप
 24 एकाक्षरा सुकुसुमा कृष्ण कर्णी च भारत
   कषुर कर्णी चतुष्कर्णी कर्णप्रावरणा तथा
 25 चतुष्पथ निकेता च गॊकर्णी महिषानना
   खरकर्णी महाकर्णी भेरी सवनमहास्वना
 26 शङ्खकुम्भ सवना चैव भङ्गदा च महाबला
   गणा च सुगणा चैव तथाभीत्य अथ कामदा
 27 चतुष्पथ रता चैव भूरि तीर्था अन्यगॊचरा
   पशुदा वित्तदा चैव सुखदा च महायशाः
   पयॊदा गॊमहिषदा सुविषाणा च भारत
 28 परतिष्ठा सुप्रतिष्ठा च रॊचमाना सुरॊचना
   गॊकर्णी च सुकर्णीच ससिरा सथेरिका तथा
   एकचक्रा मेघरवा मेघमाला विरॊचना
 29 एताश चान्याश च बहवॊ मातरॊ भरतर्षभ
   कार्त्तिकेयानुयायिन्यॊ नानारूपाः सहस्रशः
 30 दीर्घनख्यॊ दीर्घदन्त्यॊ दीर्घतुण्ड्यश च भारत
   सरला मधुराश चैव यौवनस्थाः सवलंकृताः
 31 माहात्म्येन च संयुक्ताः कामरूपधरास तथा
   निर्मांस गात्र्यः शवेताश च तथा काञ्चनसंनिभाः
 32 कृष्णमेघनिभाश चान्या धूम्राश च भरतर्षभ
   अरुणाभा महाभागा दीर्घकेश्यः सिताम्बराः
 33 ऊर्ध्ववेणी धराश चैव पिङ्गाक्ष्यॊ लम्बमेखलाः
   लम्बॊदर्यॊ लम्बकर्णास तथा लम्बपरॊ धराः
 34 ताम्राक्ष्यस ताम्रवर्णाश च हर्यक्ष्यश च तथापरे
   वरदाः कामचारिण्यॊ नित्यप्रमुदितास तथा
 35 याम्यॊ रौद्र्यस तथा सौम्याः कौबेर्यॊ ऽथ महाबलाः
   वारुण्यॊ ऽथ च माहेन्द्र्यस तथाग्नेय्यः परंतप
 36 वायव्यश चाथ कौमार्यॊ बराह्म्यश च भरतर्षबः
   रूपेणाप्सरसां तुल्या जवे वायुसमास तथा
 37 परपुष्टॊपमा वाक्ये तथर्द्ध्या धनदॊपमाः
   शक्र वीर्यॊपमाश चैव दीप्त्या वह्नि समास तथा
 38 वृक्षचत्वरवासिन्यश चतुष्पथ निकेतनाः
   गुहा शमशानवासिन्यः शैलप्रस्रवणालयाः
 39 नानाभरणधारिण्यॊ नाना माल्याम्बरास तथा
   नाना विच्चित्र वेषाश च नाना भाषास तथैव च
 40 एते चान्ये च बहवॊ गणाः शत्रुभयं कराः
   अनुजग्मुर महात्मानं तरिदशेन्द्रस्य संमते
 41 ततः शक्त्यस्त्रम अददद भगवान पाकशासनः
   गुहाय राजशार्दूल विनाशाय सुरद्विषाम
 42 महास्वनां महाघण्टां दयॊतमानां सितप्रभाम
   तरुणादित्यवर्णां च पताकां भरतर्षभ
 43 ददौ पशुपतिस तस्मै सर्वभूतमहाचमूम
   उग्रां नानाप्रहरणां तपॊ वीर्यबलान्विताम
 44 विष्णुर ददौ वैजयन्तीं मालां बलविवर्धिनीम
   उमा ददौ चारजसी वाससी सूर्यसप्रभे
 45 गङ्गां कमण्डलुं दिव्यम अमृतॊद्भवम उत्तमम
   ददौ परीत्या कुमाराय दण्डं चैव बृहस्पतिः
 46 गरुडॊ दयितं पुत्रं मयूरं चित्रबर्हिणम
   अरुणस ताम्रचूडं च परददौ चरणायुधम
 47 पशं तु वरुणॊ राजा बलवीर्यसमन्वितम
   कृष्णाजिनं तथा बरह्मा बरह्मण्याय ददौ परभुः
   समरेषु जयं चैव परददौ लॊकभावनः
 48 सेनापत्यम अनुप्राप्य सकान्दॊ देवगणस्य ह
   शुशुभे जवलितॊ ऽरचिष्मान दवितीया इव पावकः
   ततः पारिषदैश चैव मातृभिश च समन्वितः
 49 सा सेना नैरृती भीमा सघण्टॊच्छ्रितकेतना
   सभेरी शङ्खमुरजा सायुधा सपताकिनी
   शारदी दयौर इवाभाति जयॊतिर्भिर उपशॊभिता
 50 ततॊ देव निकायास ते भूतसेना गणास तथा
   वादयाम आसुर अव्यग्रा भेरीशङ्खांश च पुष्कलान
 51 पटहाञ झर्झरांश चैव कृकचान गॊविषाणिकान
   आडम्बरान गॊमुखांश चडिडिमांश च महास्वनान
 52 तुष्टुवुस ते कुमारं च सर्वे देवाः सवासवाः
   जगुश च देवगन्धर्वा ननृतुश चाप्सरॊगणाः
 53 ततः परीतॊ महासेनस तरिदशेभ्यॊ वरं ददौ
   रिपून हन्तास्मि समरे ये वॊ वधचिकीर्षवः
 54 परतिगृह्य वरं देवास तस्माद विबुधसत्तमात
   परीतात्मानॊ महात्मानॊ मेनिरे निहतान रिपून
 55 सर्वेषां भूतसांघानां हर्षान नादः समुत्थितः
   अपूरयत लॊकांस तरीन वरे दत्ते महात्मना
 56 स निर्ययौ महासेनॊ महत्या सेनया वृतः
   वधाय युधि दैत्यानां रक्षार्थं च दिवौकसाम
 57 वयवसायॊ जयॊ धर्मः सिद्धिर लक्ष्मीर धृतिः समृतिः
   महासेनस्य सैन्यानाम अग्रे जग्मुर नराधिप
 58 स तया भीमया देवः शूलमुद्गर हस्तया
   गदामुसलनाराचशक्तितॊमर हस्तया
   दृप्तसिंहनिनादिन्या विनद्य परययौ गुहः
 59 तं दृष्ट्वा सर्वदैतेया राक्षसा दानवास तथा
   वयद्रवन्त दिशः सर्वा भयॊद्विग्नाः समन्ततः
   अभ्यद्रवन्त देवास तान विविधायुधपाणयः
 60 दृष्ट्वा च स ततः करुद्धः सकन्दस तेजॊबलान्वितः
   शक्त्यस्त्रं भगवान भीमं पुनः पुनर अवासृजत
   आदधच चात्मनस तेजॊ हविषेद्ध इवानलः
 61 अभ्यस्यमाने शक्त्यस्त्रे सकन्देनामित तेजसा
   उल्का जवाला महाराज पपात वसुधातले
 62 संह्रादयन्तश च तथा निर्घाताश चापतन कषितौ
   यथान्त कालसमये सुघॊराः सयुस तथा नृप
 63 कषिप्ता हय एका तथा शक्तिः सुघॊरानल सूनुना
   ततः कॊट्यॊ विनिष्पेतुः शक्तीनां भरतर्षभ
 64 स शक्त्यस्त्रेण संग्रामे जघान भगवान परभुः
   दैत्येन्द्रं तारकं नाम महाबलपराक्रमम
   वृतं दैत्यायुतैर वीरैर बलिभिर दशभिर नृप
 65 महिषं चाष्टभिः पद्मैर वृतं संख्ये निजघ्निवान
   तरिपादं चायुत शतैर जघान दशभिर वृतम
 66 हरदॊदरं निखर्वैश च वृतं दशभिर ईश्वरः
   जघानानुचरैः सार्धं विविधायुधपाणिभिः
 67 तत्राकुर्वन्त विपुलं नाद्दं वध्यत्सु शत्रुषु
   कुमारानुचरा राजन पूरयन्तॊ दिशॊ दश
 68 शक्त्यस्त्रस्य तु राजेन्द्र ततॊ ऽरचिर्भिः समन्ततः
   दग्धाः सहस्रशॊ दैत्या नादैः सकन्दस्य चापरे
 69 पताकयावधूताश च हताः के चित सुरद्विषः
   केच्चीद घण्टा रव तरस्ता निपेतुर वसुधातले
   के चित परहरणैश छिन्ना विनिपेतुर गतासवः
 70 एवं सुरद्विषॊ ऽनेकान बलवान आततायिनः
   जघान समरे वीरः कार्त्तिकेयॊ महाबलः
 71 बाणॊ नामाथ दैतेयॊ बलेः पुत्रॊ महाबलः
   करौञ्चं पर्वतम आसाद्य देवसंघान अबाधत
 72 तम अभ्ययान महासेनः सुरशत्रुम उदारधीः
   स कार्त्तिकेयस्य भयात करौञ्चं शरणम एयिवान
 73 ततः करौञ्चं महामन्युः करौञ्चनाद निनादितम
   शक्त्या बिभेद भगवान कार्त्तिकेयॊ ऽगनिदत्तया
 74 सशाल सकन्धसरलं तरस्तवानरवारणम
   पुलिनत्रस्त विहगं विनिष्पतित पन्नगम
 75 गॊलाङ्गूरर्क्ष संघैश च दरवद्भिर अनुनादितम
   कुरङ्ग गतिनिर्घॊषम उद्भ्रान्तसृमराचितम
 76 विनिष्पतद्भिः शरभैः सिंहैश च सहसा दरुतैः
   शॊच्याम अपि दशां पराप्तॊ रराजैव स पर्वतः
 77 विद्याधराः समुत्पेतुस तस्य शृङ्गनिवासिनः
   किंनराश च समुद्विग्नाः शक्तिपात रवॊद्धताः
 78 ततॊ दैत्या विनिष्पेतुः शतशॊ ऽथ सहस्रशः
   परदीप्तात पर्वतश्रेष्ठाद विचित्राभरण सरजः
 79 तान निजघ्नुर अतिक्रम्य कुमारानुचरा मृधे
   बिभेद शक्त्या करौञ्चं च पावकिः परवीरहा
 80 बहुधा चैकधा चैव कृत्वात्मानं महात्मना
   शक्तिः कषिप्ता रणे तस्य पाणिम एति पुनः पुनः
 81 एवं परभावॊ भगवान अतॊ भूयश च पावकिः
   करौञ्चस तेन विनिर्भिन्नॊ दैत्याश च शतशॊ हताः
 82 ततः स भगवान देवॊ निहत्य विबुधद्विषः
   सभाज्यमानॊ विबुधैः परं हर्षम अवाप ह
 83 ततॊ दुन्दुभयॊ राजन नेदुः शङ्खाश च भारत
   मुमुचुर देव यॊषाश च पुष्पवर्षम अनुत्तमम
 84 दिव्यगन्धम उपादाय ववौ पुण्यश च मारुतः
   गन्धर्वास तुष्टुवुश चैनं यज्वानश च महर्षयः
 85 के चिद एनं वयवस्यन्ति पितामहसुतं परभुम
   सनत्कुमारं सर्वेषां बरह्मयॊनिं तम अग्रजम
 86 के चिन महेश्वर सुतं के चित पुत्रं विभावसॊः
   उमायाः कृत्तिकानां च गङ्गायाश च वदन्त्य उत
 87 एकधा च दविधा चैव चतुर्धा च महाबलम
   यॊगिनाम ईश्वरं देवं शतशॊ ऽथ सहस्रशः
 88 एतत ते कथितं राजन कार्त्तिकेयाभिषेचनम
   शृणु चैव सरस्वत्यास तीर्थवंशस्य पुण्यताम
 89 बभूव तीर्थप्रवरं हतेषु सुरशत्रुषु
   कुमारेण महाराज तरिविष्टपम इवापरम
 90 ऐश्वर्याणि च तत्रस्थॊ ददाव ईशः पृथक पृथक
   तदा नैरृतमुख्येभ्यस तरैलॊक्ये पावकात्मजः
 91 एवं स भगवांस तस्मिंस तीर्थे दैत्य कुलान्तकः
   अभिषिक्तॊ महाराज देव सेनापतिः सुरैः
 92 औजसं नाम तत तीर्थं यत्र पूर्वम अपां पतिः
   अभिषिक्तः सुरगणैर वरुणॊ भरतर्षभ
 93 तस्मिंस तीर्थवरे सनात्वा सकन्दं चाभ्यर्च्य लाङ्गली
   बराह्मणेभ्यॊ ददौ रुक्मं वासांस्य आभरणानि च
 94 उषित्वा रजनीं तत्र माधवः परवीरहा
   पूज्य तीर्थवरं तच च सपृष्ट्वा तॊयं च लाङ्गली
   हृष्टः परीतमनाश चैव हय अभवन माधवॊत्तमः
 95 एतत ते सर्वम आख्यातं यन मां तवं परिपृच्छसि
   यथाभिषिक्तॊ भगवान सकन्दॊ देवैः समागतैः
 1 [vai]
    śṛṇu mātṛgaṇān rājan kumārānucarān imān
    kīrtyamānān mayā vīra sapatnagaṇasūdanān
 2 yaśasvinīnāṃ mātṝṇāṃ śṛṇu nāmāni bhārata
    yābhir vyāptās trayo lokāḥ kalyāṇībhiś carācarāḥ
 3 prabhāvatī viśālākṣī palitā gonasī tathā
    śrīmatī bahulā caiva tathaiva bahuputrikā
 4 apsu jātā ca gopālī bṛhad ambālikā tathā
    jayāvatī mālatikā dhruvaratnā bhayaṃkarī
 5 vasu dāmā sudāmā ca viśokā nandinī tathā
    ekacūḍā mahācūḍā cakranemiś ca bhārata
 6 uttejanī jayatsenā kamalākṣy atha śobhanā
    śatruṃjayā tathā caiva krodhanā śalabhī kharī
 7 mādhavī śubhavaktrā ca tīrthanemiś ca bhārata
    gītapriyā ca kalyāṇī kadrulā cāmitāśanā
 8 meghasvanā bhogavatī subhrūś ca kanakāvatī
    alātākṣī vīryavatī vidyujjihvā ca bhārata
 9 padmāvatī sunakṣatrā kandarā bahuyojanā
    saṃtānikā ca kauravya kamalā ca mahābalā
 10 sudāmā bahu dāmā ca suprabhā ca yaśasvinī
   nṛtyapriyā ca rājendra śatolūkhala mekhalā
 11 śataghaṇṭā śatānandā bhaga nandā ca bhāginī
   vapuṣmatī candra śītā bhadra kālī ca bhārata
 12 saṃkārikā niṣkuṭikā bhramā catvaravāsinī
   sumaṅgalā svastimatī vṛddhikāmā jaya priyā
 13 dhanadā suprasādā ca bhavadā ca jaleśvarī
   eḍī bheḍī sumeḍī ca vetāla jananī tathā
   kaṇḍūtiḥ kālikā caiva deva mitrā ca bhārata
 14 lambasī ketakī caiva citrasenā tahā balā
   kukkuṭikā śaṅkhanikā tathā jarjarikā nṛpa
 15 kuṇḍārikā kokalikā kaṇḍarā ca śatodarī
   utkrāthinī jareṇā ca mahāvegā ca kaṅkaṇā
 16 manojavā kaṇṭakinī praghasā pūtanā tathā
   khaśayā curvyuṭir vāmā krośanātha taḍit prabhā
 17 maṇḍodarī ca tuṇḍā ca koṭarā meghavāsinī
   subhagā lambinī lambā vasu cūḍā vikatthanī
 18 ūrdhvaveṇī dharā caiva piṅgākṣī lohamekhalā
   pṛthu vaktrā madhurikā madhu kumbhā tathaiva ca
 19 pakṣālikā manthanikā jarāyur jarjarānanā
   khyātā dahadahā caiva tathā dhamadhamā nṛpa
 20 khaṇḍakhaṇḍā ca rājendra pūṣaṇā maṇikuṇḍalā
   amocā caiva kauravya tathā lambapayodharā
 21 veṇuvīṇā dharā caiva piṅgākṣī lohamekhalā
   śaśolūka mukhī kṛṣṇā kharajaṅghā mahājavā
 22 śiśumāra mukhī śvetā lohitākṣī vibhīṣaṇā
   jaṭālikā kāmacarī dīrghajihvā balotkaṭā
 23 kāleḍikā vāmanikā mukuṭā caiva bhārata
   lohitākṣī mahākāyā hari piṇḍī ca bhūmipa
 24 ekākṣarā sukusumā kṛṣṇa karṇī ca bhārata
   kṣura karṇī catuṣkarṇī karṇaprāvaraṇā tathā
 25 catuṣpatha niketā ca gokarṇī mahiṣānanā
   kharakarṇī mahākarṇī bherī svanamahāsvanā
 26 śaṅkhakumbha svanā caiva bhaṅgadā ca mahābalā
   gaṇā ca sugaṇā caiva tathābhīty atha kāmadā
 27 catuṣpatha ratā caiva bhūri tīrthā anyagocarā
   paśudā vittadā caiva sukhadā ca mahāyaśāḥ
   payodā gomahiṣadā suviṣāṇā ca bhārata
 28 pratiṣṭhā supratiṣṭhā ca rocamānā surocanā
   gokarṇī ca sukarṇīca sasirā stherikā tathā
   ekacakrā megharavā meghamālā virocanā
 29 etāś cānyāś ca bahavo mātaro bharatarṣabha
   kārttikeyānuyāyinyo nānārūpāḥ sahasraśaḥ
 30 dīrghanakhyo dīrghadantyo dīrghatuṇḍyaś ca bhārata
   saralā madhurāś caiva yauvanasthāḥ svalaṃkṛtāḥ
 31 māhātmyena ca saṃyuktāḥ kāmarūpadharās tathā
   nirmāṃsa gātryaḥ śvetāś ca tathā kāñcanasaṃnibhāḥ
 32 kṛṣṇameghanibhāś cānyā dhūmrāś ca bharatarṣabha
   aruṇābhā mahābhāgā dīrghakeśyaḥ sitāmbarāḥ
 33 ūrdhvaveṇī dharāś caiva piṅgākṣyo lambamekhalāḥ
   lambodaryo lambakarṇās tathā lambaparo dharāḥ
 34 tāmrākṣyas tāmravarṇāś ca haryakṣyaś ca tathāpare
   varadāḥ kāmacāriṇyo nityapramuditās tathā
 35 yāmyo raudryas tathā saumyāḥ kauberyo 'tha mahābalāḥ
   vāruṇyo 'tha ca māhendryas tathāgneyyaḥ paraṃtapa
 36 vāyavyaś cātha kaumāryo brāhmyaś ca bharatarṣabaḥ
   rūpeṇāpsarasāṃ tulyā jave vāyusamās tathā
 37 parapuṣṭopamā vākye tatharddhyā dhanadopamāḥ
   śakra vīryopamāś caiva dīptyā vahni samās tathā
 38 vṛkṣacatvaravāsinyaś catuṣpatha niketanāḥ
   guhā śmaśānavāsinyaḥ śailaprasravaṇālayāḥ
 39 nānābharaṇadhāriṇyo nānā mālyāmbarās tathā
   nānā viccitra veṣāś ca nānā bhāṣās tathaiva ca
 40 ete cānye ca bahavo gaṇāḥ śatrubhayaṃ karāḥ
   anujagmur mahātmānaṃ tridaśendrasya saṃmate
 41 tataḥ śaktyastram adadad bhagavān pākaśāsanaḥ
   guhāya rājaśārdūla vināśāya suradviṣām
 42 mahāsvanāṃ mahāghaṇṭāṃ dyotamānāṃ sitaprabhām
   taruṇādityavarṇāṃ ca patākāṃ bharatarṣabha
 43 dadau paśupatis tasmai sarvabhūtamahācamūm
   ugrāṃ nānāpraharaṇāṃ tapo vīryabalānvitām
 44 viṣṇur dadau vaijayantīṃ mālāṃ balavivardhinīm
   umā dadau cārajasī vāsasī sūryasaprabhe
 45 gaṅgāṃ kamaṇḍaluṃ divyam amṛtodbhavam uttamam
   dadau prītyā kumārāya daṇḍaṃ caiva bṛhaspatiḥ
 46 garuḍo dayitaṃ putraṃ mayūraṃ citrabarhiṇam
   aruṇas tāmracūḍaṃ ca pradadau caraṇāyudham
 47 paśaṃ tu varuṇo rājā balavīryasamanvitam
   kṛṣṇājinaṃ tathā brahmā brahmaṇyāya dadau prabhuḥ
   samareṣu jayaṃ caiva pradadau lokabhāvanaḥ
 48 senāpatyam anuprāpya skāndo devagaṇasya ha
   śuśubhe jvalito 'rciṣmān dvitīyā iva pāvakaḥ
   tataḥ pāriṣadaiś caiva mātṛbhiś ca samanvitaḥ
 49 sā senā nairṛtī bhīmā saghaṇṭocchritaketanā
   sabherī śaṅkhamurajā sāyudhā sapatākinī
   śāradī dyaur ivābhāti jyotirbhir upaśobhitā
 50 tato deva nikāyās te bhūtasenā gaṇās tathā
   vādayām āsur avyagrā bherīśaṅkhāṃś ca puṣkalān
 51 paṭahāñ jharjharāṃś caiva kṛkacān goviṣāṇikān
   āḍambarān gomukhāṃś caḍiḍimāṃś ca mahāsvanān
 52 tuṣṭuvus te kumāraṃ ca sarve devāḥ savāsavāḥ
   jaguś ca devagandharvā nanṛtuś cāpsarogaṇāḥ
 53 tataḥ prīto mahāsenas tridaśebhyo varaṃ dadau
   ripūn hantāsmi samare ye vo vadhacikīrṣavaḥ
 54 pratigṛhya varaṃ devās tasmād vibudhasattamāt
   prītātmāno mahātmāno menire nihatān ripūn
 55 sarveṣāṃ bhūtasāṃghānāṃ harṣān nādaḥ samutthitaḥ
   apūrayata lokāṃs trīn vare datte mahātmanā
 56 sa niryayau mahāseno mahatyā senayā vṛtaḥ
   vadhāya yudhi daityānāṃ rakṣārthaṃ ca divaukasām
 57 vyavasāyo jayo dharmaḥ siddhir lakṣmīr dhṛtiḥ smṛtiḥ
   mahāsenasya sainyānām agre jagmur narādhipa
 58 sa tayā bhīmayā devaḥ śūlamudgara hastayā
   gadāmusalanārācaśaktitomara hastayā
   dṛptasiṃhaninādinyā vinadya prayayau guhaḥ
 59 taṃ dṛṣṭvā sarvadaiteyā rākṣasā dānavās tathā
   vyadravanta diśaḥ sarvā bhayodvignāḥ samantataḥ
   abhyadravanta devās tān vividhāyudhapāṇayaḥ
 60 dṛṣṭvā ca sa tataḥ kruddhaḥ skandas tejobalānvitaḥ
   śaktyastraṃ bhagavān bhīmaṃ punaḥ punar avāsṛjat
   ādadhac cātmanas tejo haviṣeddha ivānalaḥ
 61 abhyasyamāne śaktyastre skandenāmita tejasā
   ulkā jvālā mahārāja papāta vasudhātale
 62 saṃhrādayantaś ca tathā nirghātāś cāpatan kṣitau
   yathānta kālasamaye sughorāḥ syus tathā nṛpa
 63 kṣiptā hy ekā tathā śaktiḥ sughorānala sūnunā
   tataḥ koṭyo viniṣpetuḥ śaktīnāṃ bharatarṣabha
 64 sa śaktyastreṇa saṃgrāme jaghāna bhagavān prabhuḥ
   daityendraṃ tārakaṃ nāma mahābalaparākramam
   vṛtaṃ daityāyutair vīrair balibhir daśabhir nṛpa
 65 mahiṣaṃ cāṣṭabhiḥ padmair vṛtaṃ saṃkhye nijaghnivān
   tripādaṃ cāyuta śatair jaghāna daśabhir vṛtam
 66 hradodaraṃ nikharvaiś ca vṛtaṃ daśabhir īśvaraḥ
   jaghānānucaraiḥ sārdhaṃ vividhāyudhapāṇibhiḥ
 67 tatrākurvanta vipulaṃ nāddaṃ vadhyatsu śatruṣu
   kumārānucarā rājan pūrayanto diśo daśa
 68 śaktyastrasya tu rājendra tato 'rcirbhiḥ samantataḥ
   dagdhāḥ sahasraśo daityā nādaiḥ skandasya cāpare
 69 patākayāvadhūtāś ca hatāḥ ke cit suradviṣaḥ
   keccīd ghaṇṭā rava trastā nipetur vasudhātale
   ke cit praharaṇaiś chinnā vinipetur gatāsavaḥ
 70 evaṃ suradviṣo 'nekān balavān ātatāyinaḥ
   jaghāna samare vīraḥ kārttikeyo mahābalaḥ
 71 bāṇo nāmātha daiteyo baleḥ putro mahābalaḥ
   krauñcaṃ parvatam āsādya devasaṃghān abādhata
 72 tam abhyayān mahāsenaḥ suraśatrum udāradhīḥ
   sa kārttikeyasya bhayāt krauñcaṃ śaraṇam eyivān
 73 tataḥ krauñcaṃ mahāmanyuḥ krauñcanāda nināditam
   śaktyā bibheda bhagavān kārttikeyo 'gnidattayā
 74 saśāla skandhasaralaṃ trastavānaravāraṇam
   pulinatrasta vihagaṃ viniṣpatita pannagam
 75 golāṅgūrarkṣa saṃghaiś ca dravadbhir anunāditam
   kuraṅga gatinirghoṣam udbhrāntasṛmarācitam
 76 viniṣpatadbhiḥ śarabhaiḥ siṃhaiś ca sahasā drutaiḥ
   śocyām api daśāṃ prāpto rarājaiva sa parvataḥ
 77 vidyādharāḥ samutpetus tasya śṛṅganivāsinaḥ
   kiṃnarāś ca samudvignāḥ śaktipāta ravoddhatāḥ
 78 tato daityā viniṣpetuḥ śataśo 'tha sahasraśaḥ
   pradīptāt parvataśreṣṭhād vicitrābharaṇa srajaḥ
 79 tān nijaghnur atikramya kumārānucarā mṛdhe
   bibheda śaktyā krauñcaṃ ca pāvakiḥ paravīrahā
 80 bahudhā caikadhā caiva kṛtvātmānaṃ mahātmanā
   śaktiḥ kṣiptā raṇe tasya pāṇim eti punaḥ punaḥ
 81 evaṃ prabhāvo bhagavān ato bhūyaś ca pāvakiḥ
   krauñcas tena vinirbhinno daityāś ca śataśo hatāḥ
 82 tataḥ sa bhagavān devo nihatya vibudhadviṣaḥ
   sabhājyamāno vibudhaiḥ paraṃ harṣam avāpa ha
 83 tato dundubhayo rājan neduḥ śaṅkhāś ca bhārata
   mumucur deva yoṣāś ca puṣpavarṣam anuttamam
 84 divyagandham upādāya vavau puṇyaś ca mārutaḥ
   gandharvās tuṣṭuvuś cainaṃ yajvānaś ca maharṣayaḥ
 85 ke cid enaṃ vyavasyanti pitāmahasutaṃ prabhum
   sanatkumāraṃ sarveṣāṃ brahmayoniṃ tam agrajam
 86 ke cin maheśvara sutaṃ ke cit putraṃ vibhāvasoḥ
   umāyāḥ kṛttikānāṃ ca gaṅgāyāś ca vadanty uta
 87 ekadhā ca dvidhā caiva caturdhā ca mahābalam
   yoginām īśvaraṃ devaṃ śataśo 'tha sahasraśaḥ
 88 etat te kathitaṃ rājan kārttikeyābhiṣecanam
   śṛṇu caiva sarasvatyās tīrthavaṃśasya puṇyatām
 89 babhūva tīrthapravaraṃ hateṣu suraśatruṣu
   kumāreṇa mahārāja triviṣṭapam ivāparam
 90 aiśvaryāṇi ca tatrastho dadāv īśaḥ pṛthak pṛthak
   tadā nairṛtamukhyebhyas trailokye pāvakātmajaḥ
 91 evaṃ sa bhagavāṃs tasmiṃs tīrthe daitya kulāntakaḥ
   abhiṣikto mahārāja deva senāpatiḥ suraiḥ
 92 aujasaṃ nāma tat tīrthaṃ yatra pūrvam apāṃ patiḥ
   abhiṣiktaḥ suragaṇair varuṇo bharatarṣabha
 93 tasmiṃs tīrthavare snātvā skandaṃ cābhyarcya lāṅgalī
   brāhmaṇebhyo dadau rukmaṃ vāsāṃsy ābharaṇāni ca
 94 uṣitvā rajanīṃ tatra mādhavaḥ paravīrahā
   pūjya tīrthavaraṃ tac ca spṛṣṭvā toyaṃ ca lāṅgalī
   hṛṣṭaḥ prītamanāś caiva hy abhavan mādhavottamaḥ
 95 etat te sarvam ākhyātaṃ yan māṃ tvaṃ paripṛcchasi
   yathābhiṣikto bhagavān skando devaiḥ samāgataiḥ


Next: Chapter 46